________________
अणुमोअणाइ विसओ जंतं अणुमोअणिजयं होइ। सो पुण पमोअमूलो वाचारो तिण्ह जोगाणं ॥३३॥
'अणुमोअणाइ'त्ति । अनुमोदनाया विषयो यद्वस्तु तदनुमोदनीयं भवति । तद्विषयत्वं च भावस्य साक्षाद् भावप्रधानत्वात्साधूनाम् । तदुक्तमोघनियुक्तौ
" परमरहस्समिमाणं समत्तगणिपिडयझरिअसाराणं ।
परिणामयं पमाणं णिच्छयमवलंबमाणाणं ॥'ति । - तत्कारणक्रियायाश्च तदुत्पादनद्वारा।
यद् हारिभद्रं वचः___ " कंजं इच्छंतेण अणंतरं कारणंपि इट्ठति ।
'जह आहारजतित्ति इच्छंतेणेहमाहारो ॥"त्ति । पुरुषस्य च तत्संबन्धितयेति तत्त्वतः सर्वत्र भावापेक्षमेवानुमोदनीयत्वं पर्यवस्यति । साऽनुमोदना पुनः प्रमोदमूलो हर्षपूर्वकस्त्रयाणां योगानां कायवाङ्मनसां व्यापारो रोमाञ्चोद्गम-प्रशंसा-प्रणिधानलक्षणो न तु मानसव्यापार एव, अनुमोदनाया अपि योगभेदेन त्रिविधायाः सिद्धान्तप्रतिपादनात् । मानसव्यापारस्यैवानुमोदनात्वे प्रशंसादिसंवलनादनुमोदनाफलविशेषानुपपत्तेश्च । न च यथा नैयायिकैकदेशिनां 'मङ्गलत्वादिकमानसत्वव्याप्या जातिस्तथाऽस्माकमनुमोदनात्वमपि तथेति, त्रयाणामपि योगानांहर्षमूलो व्यापारोऽनुमोदनेति वस्तुस्थितिः यश्चानुमोदनाव्यपदेशः कचिच्चित्तोत्साहे एव प्रवर्तते स सामान्यचाचकपदस्य विशेषपरत्वाद् निश्चयाश्रयणाद्वैत्यवधेयम् ॥ ३३ ॥
अनुमोदनीया विषयो यद्वस्तु तदनुमोदनीयं भवति । स पुनः प्रमोदमूलो व्यापारो त्रयाणां यागानाम् ॥३३॥ परमरहस्यमेषां समस्तगणिपिटकक्षरितसाराणाम् । परिणामः प्रमाणं निश्चयमवलम्बमानानाम् ॥ कार्यमिच्छता अनन्तरं कारणमिष्टमिति । यथाऽऽहारजतृप्तिमिच्छता इहाहारः ॥