SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १०५ दिनिगदितधर्मेभ्यः प्रधानोऽयम्' इत्येवं चिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानापेक्षया विकल्पार्थः ‘से' इति, यः कल्याणभागी तस्य साधोरसमुत्पन्नपूर्णापूर्वस्मिन्ननादावतीतकालेऽनुपजाता, तदुत्पादे झपार्द्धपुद्गलपरावर्तान्ते कल्याणस्यावश्यंभावात् समुत्पद्येत - जायेत । किं प्रयोजना चेयम् ? अत आह— सर्वं निरवशेषं धर्म जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा ' जाणित्तए ' ज्ञपरिज्ञया ज्ञातुं ज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयधर्मं परिहर्तुम् । इदमुक्तं भवति - धर्मचिन्ता धर्मज्ञानकरणरूपा जायते इति ॥ " अत्रापूर्वधर्मचिन्तायां उत्कर्षतोऽपार्द्धपुलपरावर्त व्यवधानेन 'कल्याणकारणत्वमुक्तम्, अन्यत्र च मुक्त्यद्वेषादिगुणानां चरमपुद्गल'परावर्त व्यवधानेनेति प्रवचनपूर्वापर भाबपर्यालोचनया गुणसामान्यस्य 'चरमावर्तमानत्वमस्माभिरुन्नीयते । यदि चैवमपि स्वतन्त्रपरतन्त्रसा`धारणापुनर्बन्धकादिगुणानामपार्द्धपुद्गलपरावर्तमानत्वमेव सकलगीता संमतं स्यात् तदा नास्माकमाग्रह इत्यस्यां परीक्षायामुपयुक्तैर्भवितव्यं गीतार्थैः प्रवचनाशातनाभीरुभिः ॥ ३१ ॥ तदेवं विवेचिता चतुर्भङ्गी, अथास्यां को भङ्गोऽनुमोद्यः ? को वा न ? इति परीक्षते - तिणि अणुमोयणिज्जा एएसुं णो पुणो तुरियभंगो। जेण मणुमोयणिज्जो लेसोवि हु होइ भावस्स ॥३२॥ तिष्णित्ति । एतेषु देशाराधकादिषु चतुर्षु भङ्गेषु त्रयो भङ्गा । देशाराधक - देशविराधक - सर्वाराधकलक्षणा अनुमोदनीया न पुनस्तुरीयो भङ्गः सर्वबिराधकलक्षणः, येन कारणेन भावस्य लेशोऽपि ह्यनुमोदनीयः, न चासौ सर्वविराधके संभवति, देशाराधकादिषु तु मार्गानुसारिभावविशेषसंभवात्, तदनुमोदनीयत्वे तद्द्वारा तेषामभ्यनुमोदनीयत्वमावश्यकमिति भावः ||३२|| अथ किमनुमोदनीयत्वम् ? का चानुमोदना । इत्येतल्लक्षणमाहयोऽनुमोदनीया एतेषु न पृनस्तुरीयभङ्गः । येनानुमोदनीयो लेशोऽपि हि भवति भावस्य || ३२ ॥ Win
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy