________________
अथाविरतसम्यग्दृष्टयादावविरत्यादेनं स्फुटदोषप्रतिसन्धानमेव च तद्गतप्रशंसाया दोषानुमतिपर्यवसानबीजम् , अत एव शैलकराजर्षिप्रभृतीनां पार्श्वस्थत्वादिस्फुटदोषप्रतिसन्धाने हीलनीयत्वमेवोक्तं शास्त्रे न तु गुणसामान्यमादाय प्रशंसनीयत्वम्, तत्कालीनतत्पशंसाया दोषानुमतिरूपत्वादित्यविरतसम्यग्दृष्टयादीनां सम्यक्त्वादिगुणानुमोदनेन दोष इति चेत् । तर्हि मार्गानुसारिणां मिथ्यादृशां मिथ्यात्वमपि न स्फुटो दोषः, तत्त्वेतरनिन्दनायुपहितप्रबलमिथ्यात्वस्यैव स्फुटदोषत्वादिति तद्गतगुणप्रशंसायामपि न दोषः, । अवश्यं चैतदित्थं प्रतिपत्तव्यम् , अन्यथा मेघकुमारजीवहस्तिनोपि दयागुणपुरस्कारेण प्रशंसानुपपत्तिरिति । अन्यतीर्थिकपरिगृहीतत्वं चाहत्प्रतिमायामिव दयादिगुणेषु न स्फुटो दोषः, दयादिगुणानामभिनिविष्टान्यतीर्थिकसाक्षिकत्वाभावेन मिथ्यात्ववृद्धिनिबन्धनत्वाभावात् , प्रत्युत तत्वतो जिनप्रवचनाभिहितत्वप्रतिसन्धानेन तदस्फुटीकृतमेव । अतः 'स्तोकस्थापि भगवदभिमतस्य गुणस्पोपेक्षा न श्रेयसी' इत्यध्यवसायदशायां तत्प्रशंसा गुणानुरागातिशयद्वारा कल्याणायहा । अत एव गुगानुरागसंकोचपरिहाराय स्तोकगुणालम्बनेनापि भक्त्युद्धानं विधेयमित्युपदिशन्ति पूर्वाचार्याः। तदुक्तं बृहत्कल्पभाष्यवृत्त्योः
देसणनाणचरित्तं तवविणयं जत्थ जत्तियं पासे । ___ जिणपन्नत्तं भत्तीए पूयए तं तहिं भावं ।।
" दर्शनं च निःशङ्कितादिगुणोपेतं सम्यक्त्वं, ज्ञानं चाचारादि, चारित्रं च मूलोत्तरगुणानुपालनात्मकं दर्शनज्ञानचारित्रं द्वन्द्वैकवद्भावः । एवं तपश्चानशनादि, विनयश्वाभ्युत्थानादिरूपस्तपोविनयम् । एतदर्शनादि यत्र पार्श्वस्थादौ पुरुषे यावत् यत्परिमाणं स्वल्पं बहु वा जानीयात् , तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेद् ” इति ।।
तेन मार्गानुसारिकृत्ये सर्वमपि भावयोगादनुमोदनीयं प्रशंसनीयं चेति सिद्धम् ॥ ३५ ॥
दर्शनशानचारित्रं तपोविनयं यत्र यावत्यावें । जिनप्रज्ञप्तं भक्त्या पूजयेद् तं तत्र भावम् ॥