________________
११४ ततश्च 'मिथ्यादृशां गुणा न ग्राह्याः' इति कदाग्रहः परित्याज्य इत्यभिप्रायेणाह- . इअ लोइअलोउत्तर सामन्नगुणप्पसंसणे सिद्धे। मिच्छदिट्ठीण गुणे ण पसंसामोत्ति दुव्वयणं ॥३६॥
'इअ 'त्ति । इत्यमुना प्रकारेण लौकिकलोकोत्तरसामान्यगुणप्रशंसने सिद्धे इष्टसाधनत्वेन व्यवस्थिते 'मिथ्यादृष्टीनां गुणान्न प्रशंसा मः' इति दुर्वचनं गुणमात्सर्यादेव, तथावचनप्रवृत्तेः । न च नैवंभूतं मात्सर्यादेवोच्यते, किन्तु सम्यग्दृष्टिमिथ्यादृष्टिसाधारणगुणप्रशंसया विशेषगुणातिशयभङ्गापत्तिभयादेवेति शङ्कनीयम् । एवं सति विरताविरतसाधारणसम्यक्त्वादिगुणप्रशंसाया अपि परिहारापत्तेः, तथापि विरतविशेषगुणातिशयभङ्गापत्तिभयतावदस्थ्यादिति ॥ ३६ ॥
दुर्वचनत्वं चास्य व्यक्त्या तत्प्रशंसाविधायकसद्वचनबाधात्सिध्यतीति तदुपदर्शयति
मग्गाणुसारिकिचं तेसिमणुमोअणिजमुवइटुं। सिवमग्गकारणं तं गम्मं लिंगेहिं धीरेहिं ॥३७॥
"मग्गाणुसारित्ति । मार्गानुसारिकृत्यं तेषामपि मिथ्यादृशामप्यनुमोदनीयमुपदिष्टं भगवता। तदुक्तं चतुःशरणप्रकीर्णके
"अहवा सव्वं चिय वायरायवयणाणुसारि जं सुकडें । कालचएवि तिविहं अणुमोएमो तयं सव्वं ॥" । इति लौकिकलोकोत्तरसामान्यगुणप्रशंसने सिद्धे । मिथ्यादृष्टीनां गुणान् न प्रशंसाम इंति दुर्वचनम् ॥ ३६ ॥
मार्गानुसारिकृत्यं तेषामनुमोदनीयमुपदिष्टम् । शिवमार्गकारणं तद् गम्यं लिङ्गैधीरैः ॥३७॥ अथवा सर्वमेव वीतरागवचमानुसारि यत्सुकृतम् ।। कालत्रयेऽपि त्रिविधमनुमोद्यामस्तत्सर्वम् ॥