SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ एतवृत्तियथा-" अथवेति सामान्यरूपप्रकारदर्शने । 'चिय'त्ति एवार्थे । ततः सर्वमेव वीतरागवचनानुसारि जिनमतानुयायि यत्सुकृतं जिनभवन-बिम्बकारणः-तत्प्रतिष्ठा-सिद्धान्तपुस्तकलेखन-तीर्थयात्रा-श्रीसंघवात्सल्य-जिनशासन-- प्रभावना-ज्ञानायुपष्टम्भ-धर्मसांनिध्यक्षमामार्दवसंवेगादिरूपं मिथ्याहसंबन्थ्यपि मार्गानुयायिकृत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमतं च यदभूद् भवति भविष्यति चेति तत्तदित्यर्थः, तत्सर्व निरवशेषमनुमन्यामहे हर्षगोच-. रतां प्राययाम इति ॥" ननु मार्गानुसारिकृत्यं न जैनाभिमतधार्मिकानुष्ठानानुकारिमिथ्यादृष्टिमार्गपतितं क्षमादिकम् , किन्तु सम्यक्त्वाभिमुखगतं जैनाभिमतमेव, तच्च सम्यग्दृष्टिगतानुष्ठानान्न पार्थक्येन गणयितुं शक्यमित्याशङ्कायामाह-तन्मार्गानुसारिकृत्यं शिवमार्गस्य ज्ञानदर्शनचारित्रलक्षणस्य कारणं धीरैनिश्चितागमतत्त्वैर्लिङ्गैः " पावं ण तिव्व भावा कुणई" इत्याधपुनर्बन्धकादिलक्षणैर्गम्यम् । अयं भावः-सम्यग्दृष्टिकृत्यं यथा वस्तुतश्चारित्रानुकूलमेवानुमोदनीयं तथा मार्गानुसारिकृत्यमपि सम्य क्वानकूलमेव । स्वल्पकालप्राप्तव्याफलज्ञानं च तत्रानुमोदनीयतायां न तन्त्रम् , किन्तु खलक्षणज्ञानमेव । तथा च यत्र भवाभिनन्दिदोषप्रतिपक्षगुणानामपुनर्बन्धकादिलक्षणानां निश्चयस्तत्र मार्गानुसारिकृत्यानुमोदनायां न बाधकम् , विविच्याग्रिमकालभाविफलज्ञानस्य प्रवर्तकत्वे तु छद्मस्थस्य प्रवृत्तिमात्रोच्छेदप्रसङ्ग इति । अत एव मार्गानुयायिकृत्यं लक्षणशुद्धं जिनभवनकारणायेवोक्तम् , तस्यैव मोक्षमार्गकारण-.. त्वाद् । मोक्षमार्गो हि भावाज्ञा सम्यग्दर्शनादिरूपा, सत्कारणं चापुनर्बन्धकचेष्टा द्रव्याज्ञा । तत्र भावाज्ञा मोक्षं प्रति कारणत्वेनानुमोदनीया, द्रव्याज्ञा तु कारणकारणत्वेनेति न कश्चिद्दोष इति । तदिदमुक्तं व्यक्तैवाराधनापताकायाम् अह दुक्कडगरहानलज्ञामियकम्मिधणो पुणो भागइ (?) सुकडाणुमोअणं तिव्वसुद्धपुलयंचियसरीरो ॥ १ ॥ १ पापं न तीवभावात्करोति ॥ अथ दुष्कृतगर्दाऽनलध्यातकर्मन्धनः पुनः...... । सुकृतानुमोदनं तीवशुद्धपुलकाञ्चितशरीरः ॥ १ ॥.
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy