________________
१६० खीणे मोहे'त्ति क्षीणे मोहे निस्सत्ताकीभूते मोहनीयकर्मणि नियमान्निश्चयेन गर्हविषयः । कृत्यं गहणीयं प्राणातिपातादिकर्म न भवति, कस्यापि प्राणिनः । तदुक्तमुपदेशपदे
" इत्तो अवीयरागों ण किंचि वि करेइ गरहणिजंतु"त्ति । ' एतवृत्त्येकदेशो यथा-इतस्त्वित एवाकरणनियमात्कृतरूपाद्वीत. रागः क्षीणमोहादिगुणस्थानवर्ती मुनिन नैव किञ्चिदपि करोति जीवघातादिकं सर्व गहणीयं त्ववद्यं देशोनपूर्वकोटीकालं जीवन्नपीति इति हेतोः।” सा हिंसा जिनानां विगलितसकलगहणीयकर्मणां क्षीणमोहवीतरागाणां न भवतीति तव मतिः केवलं भावप्राणातिपातनिषेधापेक्षया सविषया स्याद् , द्रव्यवधे तु निर्विषया भवति, तस्याशक्यपरिहारत्वेनागहणीयत्वात् ; द्रव्यभावोभयरूपस्य केवलभावरूपस्य च प्राणातिपातादेव्रतभङ्गरूपत्वेन शिष्टलोकगहणीयत्वादशिष्टगर्दायाश्चाप्रयोजकत्वात् । क्रूरकर्माणो हि न स्वयंभूरयं किन्तु मनुष्य इति, कथमस्य देवत्वम् ? कवलाहारवतो वा कथं केवलित्वम् ? इत्यादिकां भगवतोऽपि गहीं कुर्वन्त्येवेति । न चेदेवं तदोपशान्तमोहगुणस्थानवर्तिनो गर्हणीयप्राणातिपाताद्यभ्युपगमे यथाख्यातचारित्रविलोपप्रसङ्गः ।।
अथोपशान्तमोहवीतरागस्य मोहनीयसत्ताहेतु कः कदाचिदना-: भोगसहकारिकारणवशेन गर्दापरायणजनस्य प्रत्यक्षत्वाद् गहणीयो जीवघातो भवत्येव, नतु यथारख्यातचारित्रलोपस्तेन भवति, उत्सूत्रप्र. वृत्तेरेव तल्लोप हेतुत्वात् । न च प्रतिषिद्धप्रतिषेवणमात्रेणोत्सूत्रप्रवृत्तिः, किन्तु साम्परायिकक्रियाहेतुमोहनीयोदयसहकृतेन प्रतिषिद्धप्रतिषेवणेन, । सा चोपशान्तवीतरागस्य न भवति, तस्या मोहनीयानुदयजन्येर्यापथिकीक्रियया बाधितत्वात् ; उत्सूत्रप्रवृत्तोर्यापथिकोक्रिययोः सहानवस्थानाद् । यदागमः-.. ____ " जस्स णं कोहमाणमायालोमा वुच्छिण्णा भवन्ति तस्स णं इरियावहिया किरिया कज्जति । तहेव जाव उस्सुत्तं रीयमाणस्स संपराइआ किरिया कज्जति, से णं अहा सुत्तमेव रीय(य)इत्ति ॥"
१ यस्य खलु क्रोधमानमायालोमा व्युच्छिन्ना भवन्ति, तस्य खलु इर्यापथिको क्रिया कार्या, तथैव यावत् उत्सूत्रं रीय मानस्य साम्परायिका क्रिया कार्या । स खलु यथासूत्रं रोयते ॥