________________
१५९
प्यनाभोगवन्तं तं संयतलोकमासाद्यैव सिद्ध्यतीति परस्य मतं तदसद् । वर्जनाभिप्रायस्य भगवतः प्रज्ञापनावृत्तावेवोक्तत्वात्, स्वकीयदुर्गतिहेतुकर्मन्धहेतुत्वाज्ञानेऽपि स्वरूपेण वर्जनीये वर्जनाभिप्रायस्य भगवत उचित प्रवृत्तिप्रधान सामायिकफलमहिम्नैव सम्भवाद् ; अन्यथाऽनेषणीपरिहाराभिप्रायेोऽपि भगवतो न स्याद् अनेषणीयस्यापि स्वापेक्षया क्लिष्टकर्मबन्धहेतुत्वनिश्चयांत्, तथा च 'तत्थणं रेवत्तए गाहा वइणीए मम अट्ठाए दुवेको असरीरा उवक्खाया तेहिं णो अट्ठोत्ति । " अनेपणीयपरिहाराभिप्रायाभिव्यञ्जकं प्रज्ञप्तिसूत्रं व्याहन्येत, तस्माद्यथोचितकेवलिव्यवहारानुसारेण वर्जनाद्यभिप्रायस्तस्य सम्भवत्येव; प्रयत्नसाफल्यं तु शक्यविषयापेक्षया नन्वितरापेक्षयेति मन्तव्यम् । एतेन केवलज्ञानोत्पत्तिसमय एव केवलिना सर्वकालीनं सर्वमपि कार्यं नियतकारणसामग्रीसहित मेव दृष्टं तत्र केवलिना निजप्रयत्नोऽपि विवक्षितजीवरक्षाया नियतकारणसामन्यामन्तर्भूतो दृष्टोऽनन्तर्भूतो वा आये haeप्रयत्नस्य वैफल्यं न स्यात्, तस्य तस्या नियतकारणसामग्ज्यन्तभूतत्वेन दृष्टत्वाद् द्वितीये विवक्षितजीवरक्षार्थं केवलिनः प्रयत्न एव न भवेत्, केवलिना तत्सामज्यनन्तर्भूतत्वेन दृष्टत्वादिति न च प्रयत्न कुर्वनापि रक्षितुं न पारित इति वचनं छद्मस्थसंयतमधिकृत्यवैति कल्पनाऽप्यपास्ता स्वव्यवहारविषयनियतत्वेनैव केवलिना स्वप्रयत्नस्य दृष्टत्यादिति दि ॥ ४८ ॥
ननु जीवहिंसा गर्हणीयाऽगर्हणीया वा ?, अन्त्ये लोकलोकोत्तरव्यवहारबाधः | आये च गहणीयं कृत्यं भगवतो न भवतीति भगवतस्तदभावसिद्धिरित्याशङ्कायामाह
==
खीणे मोहे नियमा गरहाविसओ ण होइ किव्वंति । साण जिणाणंति मई दव्ववहे होड णिव्विसया ॥४९॥
क्षीणे मोहे नियमाहाविषयां न भवति कस्यापि ।
सा न जीनानामिति मतिद्रव्यवधे भवति निर्विषया ॥ ४९ ॥
१ तत्र च क्षेत्र गाथापतनोते मदर्थं द्वो कपोतशरीरौ उपख्यातौ, ताभ्यां नाथं इति ॥