________________
१५८ स्वरूपत एव जीवरक्षाहेतुत्वमित्यपि युक्तिमद् , उल्लङ्घनप्रलङ्घनादिवैफल्यापत्तेः, केवलियोगेभ्यः स्वत एव जीवरक्षासिद्धौ तत्र तदन्यथासिद्धेः, अनुपायविषयेऽपि क्रियाव्यापाराभ्युपगमे च कोशादिस्थितिसाधनार्थमपि तदभ्युपगमप्रसङ्गात् । यदि च साध्वाचारविशेषपरिपालनार्थ एव केवलिनोऽसौ व्यापारो न तु जन्तुरक्षानिमित्तः, तस्याः स्वतः सिद्धत्वेन तत्साधनोद्देशवयात् , जन्तुरक्षानिमित्तत्वं तूपचारादुच्यते, मुख्यप्रयोजनसिद्धेश्च न तद्वैफल्यमिति च वक्रकल्पना त्वयाऽऽश्रीयते, तदा 'स्वशस्त्रं स्वोपघाताय'ति न्यायप्रसङ्गः। एवं ह्यशक्यपरिहारजीवहिंसास्थलेऽपि साध्वाचारविशेषपरिपालनार्थस्य भगवत्प्रयत्नस्य सार्थक्यसिद्धौ ‘संचेययओ अ जाइं सत्ताई जोगं पप्प विणस्संती'त्यत्र छद्मस्थ एवाधिकृत इति स्वप्रक्रियाभङ्गप्रसङ्गात् । तस्मादाभोगादनाभोगाद्वा जायमानायां हिंसायां प्राणातिपातप्रत्ययकर्मयन्धजनकयोगशक्तिविघटनं यतनापरिणामेन क्रियत इत्येतदर्थप्रतिपादनार्थं " न च प्रयत्नं कुर्वतोऽपि रक्षितुं पारितः” इत्युक्तम् । अत एव सूत्रेऽपीत्थमेव व्यवस्थितम् । तथाहि
" वज्जेमित्तिपरिणओ संपत्तीएवि मुच्चई वैरा ।
अवहंतो वि ण मुच्चइ किलिट्ठभावोऽतिवायस्स ॥” इति ॥ एतवृत्तिर्यथा-वर्जयाम्यहं प्राणातिपातादीत्येवं परिणतः सन् सम्प्राप्तावपि, कस्य ? अतिप्राप्तस्य प्राणिप्राणविनाशस्थत्युपरिष्टात् सम्बन्धः, तथा विमुच्यते वैरात् कर्मबन्धाद् । यः पुनः क्लिष्टपरिणानः सोऽव्यापादयन्नपि न मुच्यते वैरादिति ज्ञात्वा जीवघातस्येर्यापथप्रत्ययकर्मबन्धजनने यतनापरिणामस्य सहकारित्वप्रतिपादनार्थ 'न च प्रयत्नं कुर्वतापि रक्षितुं पारितः' इत्युक्तमित्यपरे ॥ यत्तु वर्जनाभिप्राये सत्यनाभोगवशेन जायमानो जीवघातो द्रव्यहिंसात्मको न कर्मधन्धहेतुः, वर्जनाभिप्रायस्य कारणं तु जीवघाते नियमेन दुर्गतिहेतुकर्मवन्धो भवतीत्यभिप्राय एव, अन्यथा सुगतिहेतुषु ज्ञानादिष्वपि वर्जनाभिप्रायः प्रसज्यते । केवलिनस्तु वर्जनाभिप्रायो न भवत्येव, सर्वकालं सामायिकसातवेदनीयकर्मबन्धकत्वेन दुर्गतिहेतुकर्मवन्धाभावस्य निर्णीतत्वात् तस्माजीवघातस्तन्जनितकर्मवन्धभावश्चेत्युभयम