________________
तच्चैकस्मिन् समये क्षिपतीत्योपनियुक्तिसूत्रवृत्तिवचने " न च प्रयत्न कुर्वतापि रक्षितुं पारितः” इति प्रतीकस्य दर्शनाजीवरक्षोपायानाभोगादेव तदर्थोपपत्तेः केवलिभिन्नस्यैव ज्ञानिनो योगानामीर्यापथप्रत्यय कर्मबन्धानुकूलसत्त्वहिंसाहेतुत्वं सिद्ध्यति, नतु केवलिन इति निरस्तम् । न च प्रयत्नं कुर्वतापीत्यनेन प्रयत्नवैफल्यासिद्धिः, निजकायव्यापारसाध्ययतनाविषयत्वेन तत्साफल्याद् , अन्यथा तेन केवलिनो वीर्याविशुद्धिमापादयतो निर्गन्थस्य चारित्राविशुद्ध्यापत्तेः, तस्याप्याचार रूपप्रयत्नघटितत्वाद् यतनात्वेन चोभयत्र शुद्ध्यविशेषाद् । न चाशक्यजीवरक्षास्थलीययतनायां तद्रक्षोपहितत्वाभावो रक्षोपायानाभोगस्यैव दोषो नतु निर्ग्रन्थस्य चारित्रदोषः, लांतकस्य तु केवलित्वान्न तदनाभोगः सम्भवतीति तद्योगा रक्षोपहिता एव स्त्रीकर्तव्या इति घाच्यम् । तथाविधप्रयत्नस्यैव जीवरक्षोपायत्वात् , केवलिनापि तदर्थमुल्लङ्घनप्रलङ्घनादिकरणात् ___ तदुक्तं प्रज्ञापनायां समुद्घातानिवृत्तस्य केवलिनः काययोमचापाराधिकारे___ "कायजोगं जुंजमाणे आगच्छिा वा, गच्छेज वा, चिहेजवा, णिसीएजवा, तुअट्टिज वा, उल्लंघेज्ज वा; पलंघेज्ज वा, पाडिहारियपीढफलगसेज्जासंथारं पञ्चप्पिणिज्जत्ति ॥” अत्र उल्लचेज वा पलंघेजवे'त्येतत् पदव्याख्यानं यथाअथवा विवक्षितस्थाने तथाविधसम्पातिमसत्त्वाकुलां भूमिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल्लङ्कन प्रलङ्घनं वा कुयोत् । तत्र सहजात्पादविक्षेपान्मनागधिकतरः पादविक्षेप उल्लङ्घनं, स एवातिविकटः प्रल्लङ्घनमिति । स च जीवरक्षोपायः प्रयत्नो निर्ग्रन्थेन ज्ञात एवेति तस्याशक्यपरिहारजीवहिंसायां तद्रक्षाविघटको नानाभोगः, किं त्वशक्तिः, सा च योगापकर्षरूपा निग्रंथस्नातकयोः स्थानौचित्येनाविरुखेति प्रतिपत्तव्यम् ॥ यदि च तादृशरक्षोपायाः केवलियोगा एव, तदनाभोगश्च निग्रन्थस्य तद्विघटक इति वक्रः पन्थाः समाश्रीयते तदा प्रेक्षावतामुपहासपात्रता युष्मतः, यत एवमनुपायादेव तस्य तद्रक्षाभाव इति वक्तव्यं स्यानतूपायानाभोगादितिं कारणवैकल्यमेव हि कार्यविघटने तन्त्रं न तु कारणज्ञानवैकल्यमपि । न च केवलियोगानां