________________
अत एव च लोकनाथत्वमपि भगवतो वीजाधानादिसंविभक्तभव्यलोकापेक्षया व्याख्यातं ललितविस्तरायाम् , अनीशि नाथत्वानुपपत्तरिति । न चैतावता भगवतो वाक प्रयत्नस्य विफलत्वं, शक्यविषय एव विशेषतः साध्यत्वाख्यविषयतया तत्प्रवृत्तेस्तत्फलवत्यव्यवस्थितेः। सामान्यतः सर्वजीवरक्षाविषयोऽपि भगवतः कायप्रयत्नो विशेषतः शक्यजीवरक्षाविषयत्वेन सफलः सन् नाशक्यविषये वैफल्यमात्रेण प्रतिक्षेप्तुं शक्यत इति ।
न चाधिकृतविषये वाक्प्रयत्नो न विफलः, स्वल्पसंसार्यपेक्षया साफल्याद् , इतरापेक्षया वैफलस्य तत्रावास्तवत्वाद् ; अशक्यपरिहारजीवविराधनायां तु तद्रक्षाप्रयत्नः सर्वथैव विफल इति वैषम्यमिति तत्र वीर्यान्तरायक्षयवैफल्यापत्तिरिति तत्साफल्यार्थ भगवद्योगानां हिंसायां स्वरूपायोग्यत्वमेवाभ्युपेयमिति शङ्कनीयम् । एवं सति हि भगवतः क्षुत्पिपासापरीषहविजयप्रयत्नः क्षुत्पिपासानिरोधं विना विफल इति वीर्यान्तराय क्षयवैफल्यापत्तिनिरासार्थे भगवतः क्षुत्पिपासयोरपि स्वरूपायोग्यत्वं कल्पनीयमिति दिगम्बरस्य वदतो दूषणं न दातव्यं स्यादिति । यदि च क्षुत्पिपासयोर्निरोद्धुमशक्यत्वात् तत्परीषहविजयप्रयत्नो भगवतो मार्गाच्यवनादिस्वरूपेणैव फलवानिति विभाव्यते तदाऽशक्यपरिहारजीवविराधनाया अपि त्यक्तुमशक्यत्वात् , तत्र जीवरक्षाप्रयत्नस्यापि भगवतस्तथा स्वरूपेणैव फलवावमिति किं वैषम्यम् ? इत्थं च-" तस्स असं चेययओ संचययओ अ जाई सत्ताई जोगं पप्प विणस्संति । णत्थि हिंसाफलं तस्स ।।” तस्यैवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमुद्यतस्यासश्चेतयतोऽजानानस्य, किं ? सत्त्वानि, कथं ? प्रयत्नं कुर्वताऽपि, कथमपि न दृष्टो व्यापादितश्च । तथा सञ्चेतयतो जानानस्य कथम् ? अस्त्यत्र प्राणी ज्ञातो दृष्टश्च, न च प्रयत्नं फुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य यानि सत्त्वानि योगं कायादिव्यापारं प्राप्य विनश्यन्ति । न च नास्ति तस्य साधोहिंसाफलं साम्परायिकं संसारजननमित्यर्थः । यदि परमीर्याप्रत्ययं कर्म भवति,
१ तस्यासंचेतयतः संचेतयतश्च यानि सत्त्वानि योगं प्राप्य विनश्यन्ति, नास्ति हिंसाफलं तस्य ॥