________________
१५५
' ते इय'त्ति । ते एवं वादिनः पर्यनुयोज्याः प्रतिप्रष्टव्या इत्यमुना प्रकारेण यदुत एव नियमो यस्य योगात् कदाचिदपि जीववधो भवति स न केवलीत्येवंलक्षणः कथं ते भवतां सिद्ध: ? यद्यस्मात्कारणाद् योगवतः प्राणिन आत्रयोदशगुणस्थानमशक्यपरिहारा हिंसा दुर्षारा, योगनिरोधं विना तस्याः परिहर्त्तुमशक्यत्वात्, तदीययोगनिमित्तकहिंसानुकूल हिंस्य कर्मविपाकप्रयुक्ता हि हिंसा तदीययोगाद् भवन्तौ केन वार्यतामिति । अथैवं सर्वेषामपि हिंसाऽशक्यपरिहारा स्यादिति श्वेत्, न । अनाभोगप्रमादादिकारणघटितसामग्रीजन्यायास्तस्या आभोगाप्रमत्ततादिना कारणविघटनेन शक्य परिहारत्वाद्, योगमात्रजन्यायास्त्वनिरुद्धयोगस्याशक्य परिहारत्वादिति विभावनीयम् ।
"
नन्वीश्यां जीवविराधनायां जायमानायां केवलिना जीवरक्षा प्रयत्नः क्रियते न वा ? आये न क्रियते चेत्, तदाऽसंयतत्वापत्तिः । क्रियते चेत् तदा चिकीर्षितजीवरक्षणाभावात्प्रयत्नवैफल्यापत्तिः; सा च केवलिनो न सम्भवति, तत्कारणस्य वीर्यान्तरायस्य क्षीणत्वाद्, अत एव देशनाविषयकप्रयत्नविफलतायां केवलिनः केबलित्वं न सम्भवतीति परेषां सम्यक्त्वाद्यलाभे धर्मदेशनामप्यसौ न करोतीत्यभ्युपगम्यते । तदुक्तमावश्यकनियुक्तौ
" सव्वं च देसविरई सम्मं पिच्छइ य होइ कहणाउ । हराअमूललक्खो ण कहेइ भविस्सर ण तं वत्ति ॥ १ ॥ "
ततः क्षीणवीर्यान्तरायत्वादशक्यपरिहारापि जीवविराधना केवलिनो न सम्भवतीति चेत् ॥ न, यथाहि - भगवतः सामान्यतः सर्वजीवहितोद्देशविषयोऽपि वाक्प्रयत्नः खल्पसंसारिष्वेव सफलो भवति, न तु बहुलसंसारिषु, प्रत्युत तेषु कर्णशूलायते । यत उक्तं सिद्धसेनदिवाकरै:
:
64
सद्धर्म्मबीजवपनानघकौशलस्य यल्लोकबान्धव । तवापि खिलान्यभूवन् । तनाद्भुतं खगकुलेष्विह तामसेषु स्याशवो मधुकरीचरणावदाताः || १ ||” इति । सर्वा च देशविरतिं सम्यक् पश्यति च भवति कथनात् । इतरथा अमूललक्ष्यो न कथयति ...