________________
१५४ दिभवपरम्परापरिचयान्मोहमाहात्म्यजनितः कुविकल्पः, केवलं भगवद्भक्तिरेव तमुच्छिद्य तदुत्पादं निरुद्धय वा तत्कृताशुभविपाकान्निस्तारयतीति । तदुक्तमन्यैरपि
" पुण्ये मनः कस्य मुनेरपि स्यात् प्रमाणमेतस्य हि दृश्यवृत्ति । तचिन्तिचित्तं परमेश्वरस्तु भक्तस्य हृष्यत्करुणो रुणद्धि ॥” इति ।
अन्वयप्रदर्शनमेतद् । व्यतिरेकमाह-तदभक्तस्य तु कुतर्काध्माततया भगवद्भक्तिरहितस्य तु तस्मिन्नपि सकलदोषरहिते जगजीवहिते भगवत्यपि भक्तिमिषाल्लोकसाक्षिककृत्रिमभक्तिव्यपदेशात्कुविकल्पो. ऽसद्दोषाध्यारोपलक्षणो भवतीति भगवतो हृदयेऽवस्थानाभावादिति भावः ॥ ४६॥
कथं भगवत्यपि भक्तिमिषात् कुविकल्पो भवतीत्याहजेणं भणंति केइ जोगाउ कयावि जस्स जीववहो।
सो केवली ण अम्हं सो खलु मक्खं मुसावाई॥४७॥ . 'जेणं'ति । येन कारणेन भणंति केचिद् यदुत यस्य योगात्कदाचिदपि जीववधो भवति सोऽस्माकं केवली न भवति । स खलु साक्षान्मृषावादी, जीववधं प्रत्याख्यायापि तत्करणात् । इदं हि भक्तिवचनं मुग्धैर्ज्ञायते, परमार्थतस्तु भगवत्यसदोषाध्यारोपात् कुविकल्प एवेति भावः ॥ ४७ ॥
एतन्निराकरणार्थमुपक्रमतेते इय पजणुजुज्जा कह सिद्धो हंदि एस णियमो भे। जोगवओ दुव्वारा हिंसा जमसक्कपरिहारा ॥४८॥
येन भणन्ति केचिद् योगाद् कदापि यस्य जीववधः । से केवली नास्माकं, स खलु साक्षान्मृषावादी ॥ ४७ ।। ते इति पर्यनुयोज्या कथं सिद्धो हंदि एष नियमो भवताम् । योगवतो दुर्वारा हिंसा यदशक्यपरिहारा ॥ ४८ ॥