________________
१५३
त्रिचतुःपञ्चेन्द्रियास्तेषां परापरस्थिती इत्यादियावत्साधारणवनस्पतेरनन्ता अप्युत्सर्पिण्यवसर्पिण्यः " - इत्यादीनि परेणोक्तं ते त्वनाकलितग्रन्थानां विभ्रमोपादकं प्रेक्षावतां तूपहासपात्रम् । परापरभवस्थितिकायस्थितिविवेकस्य तत्र प्रतिपादितत्वात्, उत्कृष्टकायस्थितेरेव तिर्यग्योनीनामनन्तपर्यवसानात् प्रकृते च भवग्रहणाधिकारात् न तत्कायस्थितिग्रहणं कथमपि सम्भवतीति किं पल्लवग्राहिणा समधिक विचारणयेति कृतं प्रसक्तानुप्रसक्त्या ॥ ४४ ॥
तदेवं मरीचेरिव स्तोकस्याप्युत्सूत्रस्य दुःखदायित्यादन्येषां गुणानुमोदनं न कर्त्तव्यम् ' - इत्युत्सूत्रं त्याज्यम्, कर्त्तव्या च गुणानुमोदना सर्वेषामपीति व्यवस्थापितम्, अथ सूत्र भाषकाणां गुणमाह
सुत्तं भाताणं णिचं हिययडिओ हवइ भयवं । हिययामि तंमि यणियमा कल्ला संपत्ती ॥४५॥
'सुतं भसंताणं'ति । सूत्रं भाषमाणानां नित्यं निरन्तरं भगवांस्तीर्थङ्करो हृदयस्थितो भवति, भगवदाज्ञाप्रणिधाने भगवत्प्रणिधानस्यावश्यकत्वात्, आज्ञयोः ससम्बन्धिकत्वात् । हृदयस्थिते च तस्मिन् भगवति सति नियमान्निश्चयात् कल्याणसम्पत्तिः, समापत्यादिभेदेन तीर्थकृद्दर्शनस्य महाकल्याणावहतायाः पूर्वाचार्यैः प्रदर्शितत्वादिति ||४५||
कल्याणप्रापकत्वं च हृदयस्थितस्य भगवतोऽनर्थनिराकरणद्वारा स्यादित्यन्वयव्यतिरेकाभ्यां तस्यानर्थनिराकरणहेतुत्वगुणमभिष्टुवन्नाह
हिययट्ठिओ अ भयवं, छिंदइ कुविगप्पमत्तभत्तस्स । तयभत्तस्स उ तंमिवि भत्तिमिमा होइ कुविगप्पो ॥
'हिययहिओअ'त्ति | हृदयस्थितश्च भगवानात्मभक्तस्य स्वसेवकस्य कुविकल्पं कुतर्काभिनिवेशरूपं छिनत्ति । दुर्निवारो हि प्राणिनामनासूत्रं भाषमाणानां नित्यं हृदयस्थितो भवति भगवान् 1 हृदयस्थिते तस्मिंश्च नियमात्कल्याणसंपत्तिः ॥ ४५ हृदयस्थितश्च भगवान् छिनत्ति कुविकल्पमात्मभक्तस्य । तदभक्तस्य तु तस्मिन्नपि भक्तिमिषाद् भवति कुविकल्पः ॥ ४६ ॥