________________
१५३
यवृत्तावपि केषुचिद्वादशैव्वयमेव पाठोऽस्ति । आदर्शान्तरे च - " अतिदुष्करतपोविधानेऽपि किल्बिषदेवत्वं निर्वर्तितवान् " - इति । उक्तं च प्रज्ञप्ती - "जड़ णं भंते ०" इत्यादि रचनया पाठोऽस्ति । एवंस्थिते मध्यस्था गीतार्था इत्थं प्रतिपादयन्ति यदुत भगवत्यादिबहुग्रन्धानुसारेण परिमितभवत्वं जमालेर्ज्ञायते, सिद्धर्षीयवृत्तिपः टविशेषाद्यनुसारेण चानन्तभवत्वमिति, तत्त्वं तु तत्त्वविद्वेद्यमिति; परं भगवती सूत्रं प्रकृतार्थेन विवृतमस्ति तत्सांमुख्यं च वीरचरित्रादिग्रन्थं तेषु दृश्यते, संप्रतिदर्शनं त्वर्थद्वयाभिधानप्रक्रमेऽप्येकार्थापुरस्कारेणापि संभवति । यथा नानाकारं कायेन्द्रियम्, असंख्येयभेदत्वात्, अस्य चान्तर्बहिभेदो न कश्चित् । प्रायः प्रदीर्घसंस्थितं कर्णाटकायुधं क्षुरप्रस्तदाकारं रसनेन्द्रियम्, अतिमुक्तक पुष्पदलचन्द्रकाकारं किंचित्सकेसरवृत्ताकारमध्यविनतं घ्राणेन्द्रियम्, किंचित्समुन्नतमध्यपरिमण्डलाकारं धान्यमसूचच्चक्षुरिन्द्रियम्, पाथेयभाण्डकयवनालिकाकारं श्रोत्रेन्द्रियं नालिककुसुमाकृति चावसेयम्, तत्रायं खकायपरिमाणं द्रव्यमनश्च, शेषाण्यझुलासंख्येपभागप्रमाणानि सर्वजीवानाम् । तथा चागमः - ' 66 फासिंदिए णं भंते किंठिए पण्णत्ते ? गोयमा ! णाणासंठाणसंठिए । जिन्भदिए णं भंते किं संठिए पण्णते ? गोयमा ! खुरप्पसंठिए । घाणेंदिए णं भंते किंसंठिए पण्णत्ते ? गोयमा ! अतिमुत्तयचंदगसंठिए पण्णत्ते । चक्खुरिदिए णं भते किंसंठिए पण्णत्ते ? गोमा ! मर चंदसंठिए । सोइदिए णं भंते किंसंठिए पण्णत्ते ? गोयमा ! कलंबु आपुकसंठिए पगते " - इति । अत्र होन्द्रियसंस्थानं तत्परिमाणं चेति तुकान्तं संमतिप्रदर्शनं तु पूर्वार्थ एवेत्येवं सिद्धर्षीयवृत्त्यादर्शविशेषेऽपि जमाले रनन्तभवस्वामित्वप्रदर्शनं चतुरन्तसंसारकान्तारदृष्टान्तत्वप्रदर्शन सदृशम्, सूत्रसंमतिस्तु, देवकिल्बिषिकत्वांश एवइत्ययमर्यो न्याय्योऽन्यो वा तत्र कश्चित्सुंदरोऽभिप्राय इति यथा बहुश्रुताः प्रतिपादयन्ति तथा प्रमाणीकर्तव्यं न तु कुविकल्पचक्रेण ग्रन्थकदर्थना कर्तव्या ।
66
""
यत्तु वस्तुगत्या समयभाषया तिर्यग्योनिकशब्द एवानन्तभवाभिधायको भवति । यदुक्तं तिर्यग्योनीनां च - इनि तत्वार्थ सूत्रभाष्यवृत्ती - " तिर्यग्योनयः पृथिव्यप्तेजोवायुवनस्पति द्वि