________________
१६१
८८ २
तथाऽस्मादुत्सूत्रप्रवृत्तिप्रतिबन्धिका भावत ईर्यापथिकी क्रियैव, यथाख्यातचारित्रप्रतिबन्धिका च मोहनीयोदयजन्या साम्परायिकी क्रिया भवतीति सम्यकुपर्यालोचनायामुपशान्तवीतरागस्य नोत्सूत्रवृत्तिर्नवा यथाख्यातचारित्रहानिरिति चेत् । न, द्रव्यवधस्य गर्हणीयत्वे प्रतिषिद्धप्रतिषेवणरूपत्वे च तेनोपशान्तमोहस्यापि यथाख्यात चारित्रस्य निर्ग्रन्थत्वस्य च विलोपप्रसङ्गस्य वज्रलेपत्वात् । परिहारविसुद्धिय संजय पुच्छा, गो० णो पडिसेवए होज्जा, अपडिसेवए होज्जा । एवं जाव अहक्खाय संजए कसायकुसीले पुच्छा, गो० णो पडिसेवए होज्जा, अपडिसेवए हुज्जा, एवं नियंठेवि, एवं सिणाए वि ।" इत्याद्यागमेन प्रतिषिद्धप्रतिषेवणस्योपरितनचारित्र निर्ग्रन्थत्रयविरोधिताप्रतिपादनात् संयमप्रतिकूलार्थस्य सञ्ज्वलनकषायोदयात् सेवकः - प्रतिषेवक इति प्रतिषेवणाद्वारे व्याख्यानात् प्रतिषेवणाविशेषेणैव यथाख्यातचारित्रादिविरोधव्यवस्थितेः ॥ अनाभोजद्रव्य हिंसायाः प्रतिषिद्वप्रतिषेवणरूपत्वे उपशान्तमोहवृत्तित्वे च न बाधकमिति चेत् । न, प्रतिषेवापद विषयविभागेऽनाभोगजप्रतिषेवाया अपि परिगणनाद् । यदागमः- -" २ दसविहा पडिसेवणा पण्णत्ता । तं० - दप्प- प्पमाय - ऽणाभोग - आउरे आवईइ य संकिए सहसक्का (र) -भय- प्पदोसा य वीमंसत्ति । " तस्माद्द्रव्यहिंसायाः प्रतिषेवणारूपत्वाभ्युपगमे तवाप्युपशान्तमोहस्य प्रतिषेवित्वं स्यादित्यप्रति • षेवित्वव्याप्ययथाख्यातचारित्र निर्ग्रन्थत्वयोस्तत्र का प्रत्याशा ? मोहोदय विशिष्टप्रतिषेवणत्वेनोत्सूत्रप्रवृत्तिहेतुमभ्युपगम्य वीतरागे मोहसत्ताजन्यप्रतिषेवणाश्रयणेऽपसिद्धान्तादिदोषा दुर्द्धरा एव प्रसज्येरन्, मोहोदयसत्ताजन्योत्सूत्रप्रवृत्तिहेतुप्रतिषेवणाभेदस्य कापि प्रवचनेऽश्रुतत्वात् प्रत्युत कषायकुशीलादिपरिहारविशुद्धिकाद्युपरितननिर्ग्रन्थसंयमत्रयस्याप्रतिषेवित्वाभिधानाद् । मोहोदयमात्रमपि न प्रतिघेवणाजनकमिति तत्सत्ताजन्यप्रतिषेवणवार्त्तापि दूरोत्सारितैवेति तस्या उत्सूत्रप्रवृत्तिहेतुत्वे मोहोदयविशिष्टत्वं तन्त्रमित्यत्र सूत्रसम्म तिप्रदर्शनमत्यसमञ्जसम्, ततः पुलाकबकुशमति सेवाकुशीलत्रयनृत्यपकृष्टसंयमस्थाननियत संज्वलनोदयव्याप्य एव व्यापारविशेषः प्रतिषेवणारूपः स्वीकर्त्तव्यः, स एव च साधूनां गर्हणीय
3
१ परिहारविशुद्धिकसंयते पृच्छा, गौतम ! न प्रतिषेवको भवेत्, अप्रतिषेवको भवेद्, एवं यावत् यथाख्यातसंयते कषायकुशीले पृच्छा, नो प्रतिषेवको भवेद अप्रतिषेो भवेत् । एवं निर्ग्रन्थेऽपि, एवं स्नातकेऽपि ॥
२ दशविधा प्रतिषेवणा प्रशप्ता, सद् यथा दर्प- प्रमादा-नाभोगा-35 तुरापदश्च शङ्कितः उहात्कार-भय-प्रद्वेषाश्च-विमर्श इदि ।
૧