________________
वा ताभिः 'इदं सावद्यम्' इति प्रज्ञाप्य प्रतिषेवित्वम्, इदमित्यनेन प्रत्यक्षव्यक्तिग्रहणात् तस्यावानवद्यत्वादिति विभाव्यते, तदा 'अनेषणीयं न ग्राह्यम्' इत्यादिसामान्यप्रतिवेधवाक्ये श्रुतव्यवहारश्रुद्धानेषणीयातिरिक्तानेषणीयादेनिषेध्यत्वं वक्तव्यम्; तथा चापवादिकमन्यदपि कृत्यं श्रुतव्यवहारसिद्धमित्यपतिषिद्धमेवेत्या भोगेन प्रतिषिद्धविषयप्रवृत्तिः साधूनां वापि न स्यादिति खदपेक्षया यतीनाम शुभयोगत्वमुच्छिद्येतैवेति प्रमत्तानां शुभाशुभयोगत्वेन द्वैविध्यप्रतिपादकागमविरोधः, तस्मादाभोगेन जीवघातोपहितत्वं न योगानामशुभत्वम्, अशुभयोगजन्यजीवधातो जोवारम्भकत्वव्यवहारविषयः, अशुभयोगारम्भकपदयोः पर्यायखप्रसङ्गाद्, एकेन्द्रियादिष्वारम्भकत्वव्यवहाराभावप्रसङ्गाच; नहि ते आभोगेन जोवं नन्तीति। अस्ति च तेष्वप्यारम्भकव्यवहारः। तदुक्तं भगवतीवृत्तौ-" तत्थ णं जे ते असंजया ते अविरई पडुच्च आयारंभा वि जावणो अणारंभा" इत्यस्य व्याख्याने इहाय भावः-यद्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति, तथाप्यविरतिं प्रतीत्य तदस्ति तेषाम्, न हि ते ततो निवृत्ताः: अतोऽसंयतानामविरतिस्तत्र कारणमिति । निवृत्तानां तु कश्चिदात्माघारम्भकत्वेऽप्यनार म्भकलम् । यहाह- ‘जा जयमाणस्स' इत्यादि: किन्तु सूत्रोदितेतिकर्तव्यतोपयोगपूर्वकव्यापारत्वं शुभयोगत्वं तदनुपयोगपूर्वकव्यापारत्वं चाशुभयोगसम्, तदुक्तं भगवतीवृत्ती-“शुभयोग उपयुक्ततया प्रत्युपेक्षणादिकरणम्, अशुभयो. गस्तु तदेवानुपयुक्ततयेति । तत्र शुभयोगः संयतानां षष्ठेऽपि गुणस्थाने संयमस्व भावादेव, अशुभयोगश्च प्रमादापाधिकः । तदुक्तं तत्रैव-" प्रमत्तसंयतस्य हि शुभोऽशुभश्व योगः स्यात् , संयतखात्प्रमादपरखाच्चेति” । तत्र प्रमत्तसंयतानामनुपयोगेन प्रत्युपेक्षगादिकरणादशुभयोगदशायामारम्भिकोक्रियाहेतुव्यापारवत्वेन सामान्यत आरम्भकत्वादात्मारम्भकादित्वम् , शुभयोगदशायां तु सम्यक्रियोपयोगस्यारम्भिको क्रियाप्रतिबन्धकत्वात् , तदुपहितव्यापाराभावेनानारम्भकत्वम्, प्रमत्तगुणस्थाने सर्वदाऽऽरम्भिकीक्रियाभ्युपगमस्त्वयुक्तः, अनियमेन तत्र तत्प्रतिपादनात् । तदुक्तं प्रज्ञापनायां क्रियापदे- आरंभियाणं भंते ! किरिया कस्स कन्जइ, गो०, अण्णयरस्सावि पमत्तसंजयस्स ” इति । अत्रा
१तत्र येते असंयतास्ते अविरतिं प्रतीत्य आत्मारम्भाअपि यावद् नो अनारम्भाः।
२ आरम्भिकानां भदन्त ! क्रिया कस्य क्रियते ? गौतम ! अन्यतरस्यापि प्रमत्तसंयतस्य ।