________________
पिशब्दो भिन्नक्रमः, प्रमत्तसंयतस्याप्यन्यतरस्यैकतरस्य कस्यचित्यमादे सति कायदुष्प्रयोगभावतः पृथिव्यादेरुपमर्दसम्भवाद् अपिशब्दोऽन्येषामधस्तनगुणस्थानवत्तिनां नियमप्रदर्शनार्थः। प्रमत्तसंयतस्याप्यारम्भिकी क्रिया भवति किं पुनः शेषाणां देशविरतप्रभृतोनामिति-अस्यां व्यवस्थायां सिद्धायां जानतोऽपि भगवतो धर्मोपकरणधरणेऽवर्जनीयस्य द्रव्यपरिग्रहस्येव गमनागमनादिधर्म्यव्यापार ऽवर्जनीयद्रव्यहिंसायामप्यप्रमत्तत्वादेव नाशुभयोगत्वमिति प्रतिपत्तव्यम् । तत्र भगवता धर्मोंपकरणसत्त्वेऽपि मूर्छाऽभावेन परिग्रहत्वत्यागान्न परिग्रहदोषः, द्रव्यहिंसायां तु सत्यां प्राणवियोगरूपतल्लक्षणसत्त्वात्तद्दोपः स्यादेवेति व्यामूढधिया शङ्कनीयम; 'प्रमादयोगेन प्राणव्यपरोपणं हिंसा'-इति तत्त्वार्थे तल्लक्षणकरणाद् भगवति तदभावादेव, अत एव ' हिंसा नियता दोषः, परिग्रहस्त्वनियतो दोषः' इत्यप्यवास्तम्, मैथुनादन्यत्राश्रवेऽनियतदोपखप्रतिपादनात् । तदुक्तं तत्त्वार्थवृत्तौ-"प्रमत्तयोगादभिधानमनृतम्, प्रमत्तयोगाददत्तादानं स्तेयम्, प्रमत्तयोगान्मूर्छा परिग्रहः, मैथुने प्रमत्तयोगादिति पदं न,यत्राप्रमत्तस्य तथाभावे सति तत्र प्रमत्तयोगग्रहणमर्थवद् भवति, प्रमत्तस्य कर्मबन्धो नाप्रमत्तस्येति प्राणातिपा- ' तवन्मैथुने तु रागाद्वेषान्वयाविच्छेदात् सर्वावस्थास्तु मैथुनासेविनः कर्मबन्ध इत्या- . दि।” एतेन द्रव्यहिंसया भगवतः प्राणातिपातकत्वप्रसङ्गोऽपि निरस्तः, द्रव्यपरिग्रहेण परिग्रहित्वप्रसङ्गतुल्ययोगक्षेमत्वात् । किञ्च वीतरागाणामप्रमत्तानां च जीवविराधनायां सत्यामप्यारम्भिकीप्राणातिपातिकी क्रियाऽभाव एव भणितः। तदुक्तं भगवत्यां,-'तत्थणं जे ते संजया ते दुविहा पण्णत्ता । तं०सरागसंजया य वीयरायसंजयाय । तत्थणं जे ते वीयरागसंजया ते णं अकिरिया। तत्थ णं जे ते सरागसंजया, ते दुविहा पण्णत्ता। तं०-पमत्तसंजया य अपमत्तसंजया य । तत्थ णं जे ते अपमत्तसंजया, तेसिणं एगा मायावत्तिया किरिया कज्जइ, तत्थ णं जे ते पमत्तसंजया तेसिणं दो किरियाओ कज्जति । तं०-आरंभिया य मायावत्तिआ य इत्यादि " । एतद्वत्तिर्यथा-" सरागसंजय'त्ति अक्षीणानुपशान्तकषाया, 'वोयरागसंजय' त्ति उपशान्तकषायाः क्षीणकषायाश्च । 'अकिरिय'
१ तत्र च येते संयतास्ते द्विविधाः प्रज्ञप्ताः । तद्यथा-सरागसंयताश्च वीतरागसंयताश्च । तत्र च ये ते वीतरागसंयता ते चाक्रियाः। तत्रं ये ते सरागसंयतास्ते द्विविधाः प्रज्ञप्ताः । तद्यथा-प्रमतसंयताश्च अप्रमत्तसंयताश्च । तत्र येते अप्रमत्तसंयतास्तेषामेका मायाप्रत्ययिका क्रिया क्रियते । तत्र येते अप्रमत्तसंयतास्तेषां द्वे क्रिये क्रियेते, आरम्भिका मायाप्रत्ययिका च ॥