________________
१७६ त्ति वीतरागत्वेनारम्भादीनामभावाद क्रियाः। 'एगा मायावत्तिय' त्ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया क्रिया 'कज्जइति क्रियते भवति: कदाचिदुड्डाहरक्षणप्रवृत्तानामक्षीणकषायत्वादिति । 'आरंभिय'त्ति प्रमत्तसंयतानां सर्वः प्रमत्तयोग आरंभ इति कृत्वाऽऽरम्भिकी स्यात् , अक्षीणकषायत्वाच्च मायाप्रत्ययेति । तथा तत्रैवाष्टशते षष्ठोद्देशके प्रोक्तं-" 'जीवेणं भंते ! ओरालियसरीराओ कइ किरिए ? गो० सिय तिकिरिए, सिय चउकिरिए, सियपंच किरिए, सिय अकिरिएत्ति” ॥ एतत्तिर्यथा-" परशरीरमौदारिकाद्याश्रित्य जीवस्य नारकादेश्च क्रिया अभिधातुमाह-'जीवेणमित्यादि।' ओरालियसरीराओ'त्ति औदारिकशरीरमाश्रित्य कतिक्रियो जीव इति प्रश्नः। उत्तरं तु 'सिय तिकिरिय'त्ति । यदेकजीवोऽन्यस्य पृथिव्यादेः सम्बन्थ्यौदारिकशरीरमाश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरणिकीपाद्वेषिकीनां भावाद्, एतासां च परस्परेणाविनाभूतखात् स्यात् ' त्रिक्रियः' इत्युक्तम्, न पुनः स्याद् ‘एकक्रियः' स्याद् 'विक्रिय' इति । अविनाभावश्च तासामेवमधिकृतधिया ह्यवीतरागस्यैव नेतरस्य, वथाविधकर्मबन्धाहेतुंखाद्, अवीतरागकायस्य चाधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावे कायिकोसद्भावः। उक्तं च प्रज्ञापनायामिहाथै-" २जस्स णं जीवस्स काइआ किरिया कज्जइ तस्स अहिंगरणिया णियमा कन्जइ, जस्स अहिगरणिया किरिया कन्जइ तस्स वि काइया किरिया णियमा कज्जइ” इत्यादि,। तथाऽऽद्यक्रियात्रयसद्भावे उत्तरक्रियादयं भजनया भवति । यदाह- जस्स णं जीवस्स काइया कज्जइ, तस्स पारियावणिया सिय कज्जइ, सिय णो कज्जइ” इत्यादि । ततश्च यदीयकायव्यापारद्वारेणाद्यक्रियात्रय एव वर्त्तते, न तु परितापयति न चातिपातयति, तदा त्रिक्रिय एवेति, अतोऽपिस्यात् 'त्रिक्रिय' इत्युक्तम् । यदा तु परितापयति तदा चतुष्क्रियः, आयक्रियात्रयस्य सत्रावश्यभावाद् । यदा खतिपातयति तदा पञ्चक्रिया, चतुष्कस्य तत्रावभावाद् । उक्तं च-" जस्स पारिआवणिया किरिया कज्जइ तस्स काइया णियमा कज्ज
१ जीवो भदन्त ! औदारिकशरीरात कतिक्रियः ? गौतम ! स्यात् त्रिक्रियः, स्यात् चतुष्क्रिय. स्यात् पञ्चक्रियः, सक्रिय इति ।
२ यस्य जीवस्य कायिकी क्रिया क्रियते, तस्याधिकरणिकी नियमाक्रियते। यस्याधिकरणिकी क्रिया क्रियते तस्यापि कायिकी क्रिया नियमाक्रियते। ३ यस्य जीवस्य कायिकी क्रियते तस्य पारितापनिकी स्यात् क्रियते, स्यात् नो क्रियते । ४ यस्य पारितापनिकी क्रिया क्रियते तस्य कायिकी नियमात् क्रियते ।