SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७७ इ" इत्यादि । अत एवाह-"सिय चउकिरिए,' सिय पंचकिरिएत्ति तथा सिअअकिरिए” त्ति । वीतरागावस्थामाश्रित्य, तस्यां हि वीतरागलादेव न सन्त्यधिकृतक्रिया इति । एतद्वचनानुसारेण ह्येतत्प्रतीयते-यदारम्भिकी क्रिया प्रमादपर्यन्तमेव, न तु जीवविराधनायां सत्यामप्युपरिष्टादपि । प्राणातिपातक्रिया च प्रवेपेण प्राणातिपातकाल एव, न च पृथिव्यादीनां तदसम्भवः, तत्कृताकुशलपरिणामानिवृत्यैव तत्प्रतिपादनादिति । साप्यप्रमत्तस्य न सम्भवति । न चावीतरागकायस्याधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायिकीक्रियासद्भावे त्रिक्रियत्वस्य नियमप्रतिपादनाद् एवंभूतस्याप्रमत्तस्यापि प्राणातिपातव्यापारकाले प्राणातिपातिकीक्रियासम्भव इति वाच्यम्, कायिकीक्रियाया अपि प्राणातिपातजनकप्रद्वेषविशिष्टाया एव ग्रहणाद्, इत्थमेवाद्यक्रियात्रयनियमसम्भवात् । तदुक्तं 'प्रज्ञापनावृत्तौ'-" इह कायिकी क्रिया औदारिकादिकायाश्रिता प्राणातिपातनिर्वर्तनसमर्था प्रतिविशिष्टा परिगृह्यते, तथा काचन कार्मणकायाश्रिता वा, तत आद्यानां तिसृणां क्रियाणां परस्परं नियामकभावः कथमिति चेत् ; उच्यते-कायोऽधिकरणमपि भवतीत्युक्तं प्राक, ततः कायस्याधिकरणत्वात कायिक्यां सत्यामवश्यमाधिकरणिकी. आधिकरणिक्यामवश्यं कायिकी, सा च प्रतिविशिष्टा कायिकी क्रियापद्वेषमन्तरेण(न) भवति,ततः प्राद्वेषिक्यापिसह परस्परमविनाभावः।प्रदेषोऽपि च कायेन स्फुटलिङ्ग एव, वक्त्ररूक्षत्वादेस्तदविनाभाविनः प्रत्यक्षत एवापलम्भाद् । उक्तं च-"रूक्षयति रूक्षतो ननु वक्त्रं स्निह्यति च रज्यतः पुंसः। औदारिकोऽपि देहो भाववशात् परिणमत्येवम॥” इति । यदि च प्रद्वेषान्वयाविच्छेदमात्रादवीतरागमात्रस्य कायिक्यादिक्रियात्रयनियमः स्यात् , तदा मूक्ष्मसम्पराये प्राणातिपातसम्पत्तौ प्राणातिपातक्रियया पड़विधवन्धकखस्याप्युपपत्तौ " जीवेणं भंते ! पाणाइवाएणं कइ कम्मपगडीओ - धइ ? गोअमा ! सत्तविहबंधए वा अविहबंधए वा।" इत्युक्तव्यवस्थानुपपत्तिः। नन्वेवं-" २जीवेणं भंते ! नाणावरणिज्जे कम्मं बंधमाणे कइकिरिए ? गोअमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए ।-" इति प्रज्ञापनासूत्रस्य का गतिः? भवदुक्तरीत्या ज्ञानावरणीयं कर्म बध्नतो दशमगुणस्थानवर्तिनोऽक्रिय १ जीवो भदन्त ! प्राणातिपातेन कति कर्मप्रकृतीबध्नाति ? गौतम ! सप्तविधवन्धको वाऽष्टविधवन्धको वा। २ जीवो भदन्त ! ज्ञानावरणीयं कर्म बनन् कतिक्रियः १ गौतम ! स्यात् त्रिक्रियः, स्यात् चतुष्क्रियः स्यात् पञ्चक्रियः । २३
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy