________________
१७३
'वुकंनजोणि- थंडिल - असा दिना विई (पीडि) अवि छुहाइ । तहवि ण गिव्हिसुं जिणो मा हु पसंगो असत्थहए " ॥
3
66
यत्र भगवानावासितस्तत्र बहू ने तिलशकटान्यावासितान्यासन् । तेषु च तिला व्युत्क्रान्तयोनिका अशस्त्रोपहता अप्यायुः क्षयेणाचित्तिभूताः । ते च यstefuse स्थिताः स्युस्ततो न कल्पेरन्, अत आह— स्थण्डिले स्थिताः, एवंविधा अपि त्रसैः संसक्ता भविष्यन्ति, अत आइ - अत्रसाः - तदुद्भवागन्तुकत्रसविरहिताः, तिलशकटस्वामिभिर्गृहस्थैश्च दत्ताः एतेनादत्तादानदोषोऽपि तेषु नास्तीत्युक्तं भवति । अपि च ते साधवः क्षुधा पीडितां आयुषः स्थितिक्षयमकार्षुः, तथापि श्रीजिनो वर्द्धमानस्वामी नाग्रहीत् मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थङ्करेणापि feat ' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्त्तिनः शिष्या अशस्त्रोपहतं मा ग्राहिषुरिति भावः । युक्तियुक्तं चैतत् प्रमाणस्थ पुरुषाणाम् । यत उक्तम'विषीदति प्रमाणानि प्रमाणस्थैर्विसंस्थुलै : ' इत्यादि । अत्र हि स्वजीतकल्पातिरिक्तस्थले तीर्थकृतः साधुसमानधर्मता प्रोक्ता, सा चाशस्त्रोपहत सचित्तवस्तुनोऽग्रहणेनोपपादिता, तच्चातिप्रसङ्गनिराकरणाभिप्रायेण स च श्रुताप्रामाण्यबुद्धचैत्र स्यात् न तु भगवता प्रतिवेवितमिति छद्मस्थबुद्धिमात्रेण, छद्मस्थैरुत्सर्गतः प्रतिषिद्धत्वेन ज्ञायमानयोरपि भगवतो निशाहिण्डन - भेषजग्रहणादिप्रवृत्तेः श्रवणाद्, अपवादतोऽप्रतिषिद्धत्वज्ञानात्, तद्दर्शनेन छद्मस्थानामतिप्रसङ्ग इत्युक्तौ च सिनायासेनैव भगवतोऽपवादमवृत्तिः तस्मादुन्नत निम्नदृष्टान्तप्रदर्शितपरस्परप्रतियोगिप्रकर्षापकर्षशालिगुणोपहित क्रियारूपोत्सर्गापवादाभावेऽपि साधुसमानधर्मतावचनाद् भगवति सूत्रोदितक्रियाविशेषरूपयास्तयोर्यथोचिततया सभवोऽविरुद्ध इति युक्तं पश्यामः तथा च धर्मोपकरणानेपणीयादिविषयप्रवृत्तेर्भगवतः स्वरूपत आपवादिकत्वेन तव मते आभोगेन प्रतिषिद्धविषयप्रवृत्त्युपधानस्य योगाशुभतानियामकत्वात् तया भगवद्द्योगानामशुभत्वापत्तिर्वज्रलेपायितैव । यदि च यत्तु श्रुतव्यवहारशुद्धस्याप्यनेषणीयत्वेनाभिधानं तत् श्रुतव्यवस्थामधिकृत्यैवावसातव्यम्, 'यथाऽयं साधुरुदयनो राजा' इत्यत्र राजत्वमगृहीतश्रामण्यावस्थामपेक्ष्यैवेति स्ववचनाश्रयणाद् भगवत्स्वीकृताना ( नां) श्रुतव्यवहारसिद्धाना (नां) प्रतिषिद्धत्वाभिमतविषयप्रवृति (ती) नां वस्तुतेा न प्रतिषिद्धविषयत्वम्, न
"
१ व्युकान्नयोनि स्थण्डिल - अत्रमा दत्ताः अपि पीडिता क्षुधा । तथापि मा ग्रहीत् जिनो मा खलु प्रसङ्गोऽशस्त्रहते ॥