________________
१७२
मान्यस्य भगवति नासम्भवस्तदाऽपवाद विशेषस्यैव तथात्वे तत्सामान्यस्यापि भगवत्यनपायत्वमेव । युक्तं चैतत् तीर्थकृतोऽप्यतिशयाद्युपजीवनरूपस्वजीत कल्पादन्यत्र साधु सामान्यधर्मताप्रतिपादनात् । तदुक्तं बृहत्कल्पभाष्यवृत्योः- “ परः प्राह-यदि यथत्माचीनगुरुभिराचीर्ण तत्तत्पाश्चात्यैरप्याचरितव्यम्, तर्हि तीर्थकरे: प्राकारछत्रत्रयादिका प्राभूतिका तेषामेवार्थाय सुरैर्विरचिता समुपजीविता, तथा वयमप्यस्मनिमित्तकृतं किं नोपजीवामः । सूरिराह
'कामं खलु अणुगुरुणो धम्मा तह वि हु ण स साहम्मा । गुरुण जंतु अस पाहुडिआई समुवजीवे ॥ १ ॥
काममनुमतं खल्वस्माकं यदनुगुरवो धर्मास्तथापि न सर्वसाधर्म्याचि न्त्यते, किन्तु देशसाधर्म्यादेव । तथाहि - गुरवस्तीर्थकराः, यत्तु यत्पुनरतिशयान् प्राभृतिका सुरेन्द्रादिकृता समवसरणरचना तदादीन् आदिशब्दादवस्थितनखरो माधोमुख कण्टकादिसुरकृतातिशयपरिग्रहः समुपजीवन्ति स तीर्थंकृज्जीतकल्प इति कृत्वा न तत्रानुधर्मता चिन्तनीया । यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वं तत्रैवानुधर्मता चिन्त्यते । सा चेयमाचीर्णेति दश्यते,
२सगडद्दहसमभोमे अविअ विसेसेण विरहिअतरागं । तहवि खलु अणानं एस धम्मो पवयणस्स ॥ १ ॥
यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगरादुदायननरेन्द्रप्रत्राजनार्थं सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलापान्तराले बहवः साधवः क्षुधार्त्तास्तृषार्त्ताः संज्ञावाधिताश्च बभूवुः । यत्र भगवन्नावासितस्तत्र तिलभृतानि शकटानि पानोयपूर्णथ ह्रदः समभौमं च गर्त्ता बिलादिवर्जितं स्थण्डिलमभवद्, अपि च तत्तिलोदकस्थण्डिलजातं विरहिततरमतिशयेनागन्तुकैस्तदुत्थैव जीवैर्वर्जितमित्यर्थः । तथापि खलु भगवता नाचीर्णे नानुज्ञातम् - एषोऽनुधर्मः प्रवचनस्य सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रो पहतपरिहारलक्षण एव धर्मेऽनुगन्तव्य इति भावः । एतदेव विवृणोति—
१ कामं खलु अनुगुरवो धर्मास्तथापि खलु न सर्वसाधर्म्यात् । गुरवो यत्त्वतिशयान् प्राभृतिकादीन् समुपजीवन्ति ॥
२ शकट - हृद - समभौममपि च विशेषेण विरहिततरम् । तथापि खल्वनाचीर्णमेषोऽनुधर्मः प्रवचनस्य ॥