________________
च केवलिनस्तजानतो निश्चयनयमतेनाभोक्तव्यमपि श्रुतरूपं व्यवहारनयं प्रमाणीकुर्वन्नसौ भुङ्ग एव, अन्यथा श्रुतमपमागं कृतं स्यात् , एतच्च किल न कर्तव्यम्, व्यवहारस्य सर्वस्य प्रायः श्रीनव प्रवर्तमानवात् , तस्माद् व्यवहारनपोऽपि बलवानेव केलिना समर्थितवान्।” इति पुष्पमालामूत्रवृत्त्यादिवचनात् केवलिनोऽनेषगीयाहारस्य प्रवृत्तिसिद्धावपि नापत्रादसिद्धिः, ज्ञानादिहानिभयेन तत्राप्रवृत्तेः, श्रुतव्यवहारशुद्धयर्थमेव तत्र प्रकृतेः, तत्र 'इदं सावद्यम्' इति भणितेर भावान वचनविरोधः । 'यदि च तदनेषगीयं कथश्चित् कदाचिदपि केवलिना भुक्तम् ' इति छमस्थज्ञानगोचरीभवेत् तर्हि केवलो न भुङ्ग एव, केवल्यपेक्षया श्रव्यवहारशुद्धरेवाभावाद्, 'अश्रुद्वमिति ज्ञाखापि केवलिना भुक्तम्' इति छमस्थेन ज्ञातवात् । अत एव रक्तातिसारोपशमनार्थ रेवतीकृतकूष्माण्डयाको भगवता श्रीमहावीरेण प्रतिषिद्धः कदाचित्साधुना श्रुतव्यवहारशुद्धयानोतोऽपि: रेवतो तु जानात्येव-यद् भागवता श्रीमहावीरेण ज्ञात्वैव भुक्त इति छद्मस्थज्ञानगोचरत्वेन श्रुाव्यवहारमा एरोति रहस्यम् । एतेन केवलिनोऽभिपायाभावाजीवघातादौ सत्यपि न दोष इति पराशङ्कापि परास्ता, रेवतीकाकूष्माण्डपाकपरित्यागानुपपत्तिप्रसक्तेः।
किश्च-स्वतन्त्रक्रियावतो ज्ञानपूर्वकप्रवृत्तावभिप्रायाभावं वक्तुं कः समर्थः ? न च श्राव्यवहारशुद्धमनेषणीयं भुआनः केवली सावद्यमतिषेविता भविष्यतीति शङ्कनीयम्, सर्वेषामपि व्यवहाराणां जिनाज्ञारूपत्वेन श्रुतव्यवहारस्य सावद्यत्वाभावात् , तच्छुद्धयानीतस्य निरवद्यखाद् । अयं भावः-यथाऽप्रमत्तसंयतो जीववधेडप्यवधकः, १ अवहगो सो उत्ति ओपनियुक्तिवचनात् , अनाभोगे सत्यप्यप्रमत्ततायास्तथामाहात्म्यात् , यथा चोपशान्तमोहवीतरागो मोहसत्तामात्रहेतुके सत्यपि जोगाते केवलियद्वीतरागो नात्सूत्रचारी च, मोहनोयानुदयस्य तथामाहात्म्यात्; तथा श्रुतव्यवहारशुद्धेर्माहात्म्यादनेषणीयमपीतरैपणीयमेवेति कुतः सावध प्रतिषेवित्वगन्धोऽपीति चेत्, तदिदमखिलं गूढशब्दमात्रेणेव मुग्धप्रतारणम् । यतो यदि भगवत्स्वीकृतद्रव्यपरिग्रहानेषणीयाहारयोः स्वरूपतः सावद्यत्वेऽपि श्रुतव्यवहारशुद्ध स्योपादेयत्वधिया दोषानावहत्वं तदाऽपवादस्थानीयत्वमेव तयोः प्राप्तम्, औपाधिकशुद्धताशालित्वात् । न चापवादः स्थविरकल्पनियत इति कल्पातीतस्य भगवतस्तदभावः, एवं सत्युपसर्गस्याप्यभावापत्तेः, तस्यापि जिनकल्पस्थविरकल्पनियतत्वाद् । यदि चोत्सर्गविशेष एव कल्पनियत इति तत्सा
१ अवधकः स तु ।