________________
१७०
म्भवादिति न कश्चिद्विरोधः । इत्थं चापवाददशायां प्रमत्तसंयतानां योगानां फलोसहित पोग्यतयाऽऽभोगपूर्वकजीवनातहेतुत्वेन यथाऽशुभत्वं तथा केवलिन पत्रादिकस्य धर्मार्थमत्या धर्मोपकरणस्य धरणेऽपि खन्मतनीत्याऽऽभोगपूर्वक परिग्रहग्रहणस्य फलोपहितयोग्यतया हेतूनां योगानामशुभखापत्तिः स्फुटैवेति ।
अथ यद्यपवादेन धर्मोपकरणग्रहणं भगवतोऽभ्युपगम्येत तदा स्यादयं दोषः, अपवादं च केवलिनः कदापि नाभ्युपगच्छामः, तस्य प्रतिषिद्धप्रतिषेवणात्मकत्वेन स्वरूपतः सावद्यत्वात्; निरवद्यत्वं चास्य पुष्टालम्बन प्रतिषेवितस्य रोगविशेषविनाशकस्य परिकर्मितवत्सनागस्येव प्रायश्चित्तप्रतिपच्यादिना सोपाधिकमेव । यापि " " गंगाए णाविओ णंदो " इत्यादिव्यतिकरोपलक्षितस्य धर्मरुवेरनगारस्य नाविकादिव्यापादनमवृत्तिः सापि परमार्थ पर्यालोचनायां पुष्टालम्बनैव तत्कृतोपसर्गस्य ज्ञानादिहानिहेतुत्वाद्, ज्ञानादिहानिजन्यपरलोकानाराधनाभयेन प्रतिषिद्धमवृत्तेः पुष्टालम्बनमूलवात्; केवलं शक्त्यभावाभावाभ्यां पुष्टालम्बनतदितरापत्रादयोः प्रशस्ताप्रशस्तसञ्जवलनकषायोदयकृतो विशेषो द्रष्टव्यः; ज्ञानादिहानिभयं च केवलिनो न भवतीति तस्य नापवादवार्त्तापि ।
यच्च धर्मोपकरणधरणं तद्व्यवहारनयप्रामाण्या र्थम्, व्यवहारनयस्यापि भगवतः प्रमाणीकर्त्तव्यत्वाद् । इत्थं च ' श्रुतोदितरूपेण धर्मोपकरणधरणेन केवलिलक्षणहानि:, 'इदं सावद्यम्' इति प्रज्ञाप्य तत्प्रतिषेवणाद्, अत एव -
"", "ववहारो विहु बलवं जं वंदइ केवली वि छउमत्थं । आहाकम्मं भुंजइ सुअववहारं पमाणतो " ॥ १ ॥
केवलं निश्चयोsपि स्वविषये व्यवहारोऽपि बलवान् । यद्यस्मात्कारणात् समुत्पन्न केवलज्ञानोऽपि शिष्यो यद्यपि निश्चयतो विनयसाध्यस्य कार्यस्य सिद्धत्वात्केवली न कस्यचिद्वन्दन । दिविनयं करोति, तथापि व्यवहारनयमनुवर्त्तमानः पूर्वविहितविनयो गुरुं वन्दते - आसनदानादिकं च विनयं तस्य तथैव करोति, यावदद्यापि न ज्ञायते, ज्ञाते पुनर्गुरुरपि निवारयत्येवेति भावः । अपरं च - " अतीवगूढाचारेण केनचिद् गृहिणा विहितमाधाकर्म तच्च श्रुतोक्तपरीक्षया परीक्षमाणे नाप्यशठेन छद्मस्थसाधुनाऽविज्ञातं गृहीत्वा केवलिनिमित्तमानीतं यथावस्थितं
'गंगायां नाविको नन्दः' इत्यादि आवश्यककथानके द्रष्टव्यम् । २ व्यवहारोऽपि खलु बलवान् यद् वन्दते केवल्यपि छद्मस्थम् | आधाकर्म भुङ्क्ते श्रुतव्यवहारं प्रमाणयन् ॥