________________
१६९
योगानामशुभत्वनिवारणार्थमेव, तेषां स्वरूपयोग्यतयैव यथोक्तजीवघातहेतुत्वाद्, न पुनः फलोपहितयोग्यतयापि, कारणानामभावात् । तथाऽशुभत्वं प्रमत्त योगानामेव, तदभिव्यञ्जकं तु प्रमत्त योगानां फलवच्छुभाशुभत्वाभ्यां द्वैविध्याभिधायकमागमवचनमेव । तथाहि-‘“ १ तत्थ णं जे ते पमत्तसंजया ते णं सुहं जोगं पडुच्च णो आयारंभा, जाव अणारंभा । असुहं जोगं पडुच्च आयारंभावि; जाव णो अणारंभत्ति। ” अत्रापि प्रमत्तसंयतानां सामान्यतः प्रमत्ततासिद्ध्यर्थं तदीययोगानां स्वरूपयोग्यतयाऽऽभोगपूर्वकजीवघातहेतुत्वं वक्तव्यम्, कादाचित्काशुभयोगजन्यारम्भकत्वसिद्ध्यर्थं चाभोगोपि घात्यजीवविषयत्वेन व्यक्तो वक्तव्यः, तद्वत एव कस्यचित्प्रमत्तस्य सुमङ्गलसाधोरिवापवादावस्थां प्राप्तस्यात्माद्यारम्भकत्वात्, संयतत्वं च तस्य तदानीमपवादपदोपाधिक विरतिपरिणामस्यानपायाद्, न चैवमप्रमत्तसंयतस्य भवति, तस्यापवादपदाधिकारित्वाभावेनाभोगपूर्वकजीवघात हेतूनां योगानामभावात् । यस्त्वपवादप्रतिषेवणाराहित्यावस्थायामप्यप्रमत्तानामिव सद्भूतजीवघातः स चानाभोगजन्य एव, तदानीमनाभोगस्यापि तस्य विद्यमानत्वाद्, अत एव एवाप्रमत्तानामिव योगानां शुभत्वेन नात्माद्यारम्भकत्वमिति । फलोपहितयोग्यतास्वरूप योग्यतयोश्चायं भेद:- यस्य यदन्तर्गतत्वेन विवक्षितकार्य प्रति कारणता तस्य तदन्तर्गतत्वेनैव फलवत्तया फलोपहितयोग्यता, अन्यथा तु स्वरूपयोग्यता, सत्यपि तस्य कारणत्वे तदितरसकलकारणराहित्येन विवक्षितकार्याजनकत्वात् ; परं स्वरूपयोग्यता एकस्मिन्नपि कारणे सजातीयविजातीयानेकशुभाशुभकाafri नानाप्रकारा आधाराधेयभावसम्बन्धेन सह जाताः कारणसमानकालीनाः, फलोपहितयोग्यतास्तु स्वरूपयोग्यताजनिता अपि कादाचित्का एव, तदितरसकलकारण साहित्यस्य कादाचित्कत्वात् यच्च कादाचित्कं तत्केषाञ्चित्कारणानां कदाचिदपि न भवत्येव तेन फलोपहितयोग्यताः केषाञ्चित्कारणानां सम्भवत्योsपि कादाचित्क्य एव मन्तव्याः; अत एव केवलिनां योगा अशुभकार्यमात्रं प्रति सर्वकाल स्वरूप योग्यताभाज एव भवन्ति, न पुनः कदाचिदपि फलोपहितयोग्यताभाजोऽपि, अशुभकार्यमात्रस्य कारणानां ज्ञानावरणोदयादिघातिकर्मणामभावेन तदितरसकलकारणसाहित्याभावात् । शुभकार्याणां तु यथासम्भव कदाचित्फलोपहितयोग्यतापि स्यात्, तथैव तदितरसकलकारणसाहित्यस्य स -
"
१ तत्र ये ते प्रमत्तसंयतास्ते शुभं योगं प्रतीत्य नो आत्मारम्भाः, यावदनारम्भाः | अशुभं योगं प्रतीत्य आत्मारम्भा अपि यावद् नो अनारम्भा इति.