________________
जिणकप्पाजोग्गाणं हीकुच्छ-परिसहा जो वस्सं । ... . ही लजंति व सो संजमो तयत्थं विसेसेणं'॥ति (पृ.१०३८.गा.२६०२-३)
भगवतश्च यद्यपि वस्त्रादिधरणं ही-कुत्सा-परिषहप्रत्ययं न सम्भवति, तस्य तदभावात् , तथापि शीतोष्णादिपरीषहप्रत्ययं तत् , आहारनिमित्तक्षुत्पिपासापरीषहवरखधरणनिमित्तशीतोष्णादिपरिषहसत्ताया अपि भगवत्यविरोधात् , तथा प्रकारेण तथाविधं कर्म क्षपणीयमित्यभिप्रायाच न रागादिविकल्पः, तथाविधसाध्वाचारस्थितिपरिपालनाभिमायेणैव वा तदिति धर्मार्थमत्युपगृहीतत्वाद् द्रव्यपरिग्रहे भगवतो न दोषः । यजातीयद्रव्याश्रवे संयतानामनाभोगेनैव प्रवृत्तिस्तज्जातीयद्रव्याश्रवस्यैव मोहजन्यत्वाभ्युपगमादनर्थदण्डभूतद्रव्यहिंसादेरेवं तथात्वाद्, धर्मोंपकरणरूपे द्रव्याश्रवे तु संयतानां नानाभोगेनैव प्रवृत्तिः, किन्तु धर्माधर्मार्थमत्याऽपरिग्रहत्वाभोगेनैवेति स्वकारणलब्धजन्मनस्तस्य भगवत्यविरोध:-इत्याशङ्कायामाह
अववायोवगमे पुण इत्थं नणं पश्एणहाणी ते । पावंति असुहजोगा एवं च जिणस्स तुज्झमए ॥५॥ — 'अववाओवगमे पुण'त्ति। अत्र भगवतो द्रव्यपरिग्रहेऽपवादोपगमेऽपवादाक्रीकारे पुनस्ते तव प्रतिज्ञाहानिः, अपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवतीति तव प्रतिज्ञेति । च पुनरेवं धर्मोपकरणसद्भावेनापवादतो द्रव्याश्रवाभ्युपगमे तव मते जिनस्याशुभयोगाः प्राप्नुवन्ति । इदं हि तव मतम्-योगानामशुभत्वं तावन्न जीवघातहेतुत्वमात्रेण, उपशान्तगुणस्थानं यावदममत्तसंयतानां कदाचित्सद्भूतजीवघातसम्भवेन " तत्य णं जे ते अपमत्तसंजया ते णं णो आयारंभा, णो परारंभा, णो तदुभयारंभा, 'अणारंभा” इत्यागमप्रतिपादितानारम्भकत्वानु पपत्तिप्रसक्तेरशुभयोगानामारम्भकत्वव्यवस्थिते, किन्तु फलोपहितयोग्यतया घात्यजीवविषयकाभोगपूर्वकजीवघातहेतुत्वेन; अत्र फलोपहितयोलतयेति पदं केवलि१ अपवादोपगमे पुनरित्यं नूनं प्रतिज्ञाहानिस्ते ।
प्राप्नुवति अशुभयोगा एवं च जिनस्य तव मते ॥ २ तत्र ये ते अप्रमत्तसंयतास्ते शुभयोगं प्रतीत्य नो आत्मारंभा नो परारम्भा नो बहुभयारम्भा अनारम्भाः ॥ ....