________________
१६७
इत्यनुभवसिद्धम् । केवलिनस्तु योगाः पराभिप्रायेणानाभोगमोहनीयाद्यभावेन परिशेषात् केवलज्ञानसहकृता एव जीवघातहेतवो भवन्ति, केवलज्ञानेन' एताव - तो जीवा अमुक्षेत्रादौ ममावश्यं हन्तव्याः' इति ज्ञात्वैव केवलिना तद्घातात्, तथा च तस्य जीवरक्षादिकं कदापि न भवेत्, केवलज्ञान सहकृततद्योगानां सदा घातकत्वात्, जीवघातस्येव जीवरक्षाया म ( अ ) प्यवश्यभावित्वेन परिज्ञानाद्, उभयत्र केवलज्ञानस्य सहकारिकारणत्वकल्पने च केवलिनो योगानां जीवघावजीवरक्षातू शुभाशुभत्वे सर्वकालं युगपद् भवतः एतच्चानुपपन्नम्, परस्परं प्रतिबन्धकत्वादित्येकतरस्याभ्युपगमे पराभिप्रायेण सर्वकालमशुभत्वमेव सिद्धयतीति हन्तव्यचरमजीवहननं यावद्धिसानुबन्धिरौद्रध्यानप्रसङ्ग इति - एतद्वचनं परस्य प्रक्षिप्तम्, संरक्षणभावस्य संरक्षणानुबन्धिरौद्रध्यानस्य सादृश्याद् द्रव्यपरिग्रहाभ्युपगमे भगवतस्तुल्ययोगक्षेमत्वात् । शक्यं ह्यत्रापि भवादृशेन वक्तुम्, छद्मस्थसंयतानां परिग्राह्यवस्तुविषयकानाभोगसहकृतमोहनीयलक्षणसहकारिकारणवशेन कायादिव्यापाराः परिग्रहग्रहणहेतवतः, अत एव च परिग्राह्यवस्तुविषयकाभोग सहकृत तथाविधमोहनीयक्षयोपशमादिसहकारिकारणविशिष्टाः परिग्रहत्यागहेतव इत्यनाभोगमोहनीयाभावे hafoयोगानां परिग्रहग्रहणे केवलज्ञानमेव सहकारिकारणमिति यावत्केवलिनो धमोंपकरणधरणं तावत् संरक्षणानुबन्धिरौद्रध्यानमक्षतमेवेति । द्रव्यपरिग्रहेऽभिलाषमूलसंरक्षणीयत्वज्ञानाभावान्न रौद्रध्यानमिति यदि विभाव्यते, तदा द्रव्य हिंसायामपि स्वयोगनिमित्तक हिंसा प्रतियोगिनि जीवे स्वष्टहिंसाप्रतियोगित्वरूपघात्यत्वज्ञानाभावादेव न वदिति प्रगुणमेव पन्थानं किमिति न वीक्षसे ? ॥ ५१ ॥
अथ वस्त्रादिधरणं साधोरुत्सर्गतो नास्त्येव, कारणिकत्वात् ; " " तिहिं ठाणेहिं वत्थं धरेज्जा, हिरिवत्तियं परीसहवत्तियं दुगंछावत्तियं' इत्यागमेऽभिधानात् किन्वापवादिकम् । तद्धरणकारणं च जिनकल्पायोग्यानां स्थविरकल्पिकानां सावैदिकमेव, निरतिशयत्वादिति तद्धरणमपि सार्वदिकं प्राप्तम् । तदुक्तं विशेषावश्यके" विहियं सुए चिय जओ धरेज्ज तिहि कारणेहिं वत्थं ति । तेणें चिय तदवस्सं णिरतिसरणं धरेयव्वं ॥
१ त्रिभिः स्थानैः वस्त्रं धारयेत् - हीप्रत्ययं परिषप्रत्ययं जुगुप्साप्रत्ययम् ॥ २ विहितं श्रुत एव यतो धारयेत् त्रिभिः कारणैः वस्त्रमिति । तेनैव तदवश्यं धारयितव्यं निरतिशयेन ॥ जिनकल्पायोग्यानां हीकुत्सा परिषहा यतोऽवश्यम् ! ही उज्जेति वास संयमस्तदर्थे विशेषेण ॥ इति