________________
११८
धिकरणमिति दानरुचित्वादिगुणेष्वपि विशेषाश्रयणमावश्यकमित्यासन्नसम्यक्त्वसंगमनयसारादिसशसाधुदानादिनैव दानरुचित्वादिलं ग्राह्यमिति परस्याभिमतम् , तदसत् । भूमिकाभेदेन दानविधेरपि भेदात् , सम्यग्दृष्टिं प्रति प्रासुकैषणीयादिदानविधेरिवादिधार्मिकं प्रति " पात्रे दीनादिवर्गे च" इत्यादेरपि दानविधेः प्रतिपादनात् । ततः सामान्येन कुशलव्यापारा आदिधार्मिकयोग्या एव ग्राह्या इति युक्तं पश्यामः। एतेन पुण्यप्रकृतिहेतोरेवानुमोद्यत्वे क्षुत्तृट्सहन-रज्जुग्रहणविषभक्षणादीनामप्यनुमोद्यत्वापत्तिः । पुण्यप्रकृत्युदयप्राप्तस्यैव धर्मस्यानुमोद्यत्वे च चक्रवर्तिनः स्त्रीरत्नोपभोगादेरप्यनुमोद्यत्वापत्तिः । सम्यक्त्वनिमित्तमात्रस्थ चानुमोद्यत्वेऽकामनिर्जराव्यसनादेरप्यनुमोयत्वापत्तिः।
"अणुकंय-कामणिजर-बालतवो-विणय-दाण-विभंगे।
संजोगविप्पओगे वसणसव-इड्डिसक्कारे ॥”. . इत्यादिनाऽनुकम्पादीनामपि सम्यक्त्वप्राप्तिनिमित्तप्रतिपादनात्। धर्मबुद्ध्या क्रियमाणस्यैवानुष्ठानस्यानुमोद्यत्त्वे चाभिग्रहिकमिथ्याशा धर्मबुद्ध्या क्रियमाणस्य जैनसमयत्यजनत्याजनादेरप्यनुमोद्यत्वापत्तिरिति 'सम्यक्त्वाभिमुखस्यैव मार्गानुसारिकृत्यं साधुदानधर्मश्रवणाद्यनुमोद्यम् , नत्वन्यमार्गस्थस्य क्षमादिकमपि " इति परस्य कल्पनाजालमपास्तम् , सामान्येनैव कुशलव्यापाराणामादिधार्मिकयोग्यानामनुमोद्यत्वप्रतिपादनात्, असत्कल्पनाऽनवकाशात्, तीव्रप्रमादादि. शवलस्य सम्यक्त्वस्येव तीव्राभिनिवेशदुष्टस्य मोक्षाशयादेरप्यननुमोद्यत्वेऽपि जात्या तदनुमोद्यत्वाऽनपायादिति फलतः स्वरूपतवानुमोद्यत्वविशेषव्यवस्था, न काप्यनुपत्तिरिति...
यस्त्वाह-सम्यग्दृष्टय एव क्रियावादिनः शुक्लपाक्षिकाश्च न तु मिथ्यादृष्टय इति तेषां कृत्यं किमपि नानुमोरामिति । तेन न सुष्टु दृष्टम् , धर्मरुचिशालिनां सम्यग्दृशां मिथ्यादृशां चाविशेषेण क्रियावादित्वस्य शुक्लपाक्षिकत्वस्य च प्रतिपादनात् ॥
अनुकम्पाऽकामनिर्जरा-बालतपो-विनय-दानविभंगम् । संयोगविप्रयोगौ व्यसनोत्सवर्द्धिसत्कारम् ॥