SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११७ साणं जीवाणं दारुइत्तं सहावविणिअत्तं । तह पयणुकसायत्तं परोवयारित भव्वत्तं ॥ १० ॥ दक्खिनदयालुत्तं पियभासित्ताइ विविहगुणणिवहं । विमकारणं जं तं सव्वं अणुमयं मुज्झ ॥ ११ ॥ पञ्चसूत्र्यामप्युक्तम् - 4.6. “ अणुमोएमि सव्वेसिं अरहंताणमणुट्ठाणं, सव्वेसिं सिद्धाणं सिद्धभावं, सच्चेसिं आयरिआणं आयरं सव्वेसिं उवज्झायाणं ( सुत्तप्रयाणं सव्वेसि साहूणं साहूकिरियं सव्वेसिं सव्वेसिं सावगाणं मुक्खसाहणजोए, सव्वेंसिं देवयाणं सव्वेसिं जीवाणं होउकामाणं कल्लाणासयाणां मग्गसाहनजोए । होउ मे एसा अणुमोअणा ॥” " एतद्वृत्तिर्यथा-“अनुमोदेऽहमिति प्रक्रमः । सर्वेषामर्हतामनुष्ठानं धर्मकथादि, सर्वेषां सिद्धानां सिद्धभावमव्याबाधादिरूपम्, एवं सर्वेषामाचार्याणामाचारं ज्ञानाचारादिलक्षणम्, एवं सर्वेषामुपाध्यायानां सूत्रप्रदानं सद्विधिवद् एवं सर्वेषां साधूनां साधुक्रियां सत्स्वाध्यायादिरूपाम्, एवं सर्वेषां श्रावकाणां मोक्षसाधनयोगान् वैयावृत्त्यादीन एवं सर्वेषां देवानामिन्द्रादीनां सर्वेषां जीवानां सामान्येनैव भवितुकामानामासन्नभव्यानां कल्याणाशयानाम्, एतेषां किम् ? इत्याह-‍ :-मार्गसाधनयोगान् सामान्येनैव कुशलव्यापारान् 'अनुमोदे ' इति क्रियानुवृत्तिः । भवन्ति चैतेषामपि मार्गसाधनयोगाः, मिथ्यादृष्टीनामपि गुणस्थानकत्वाम्युपगमाद् | अनभिग्रहे सति प्रणिधिशुद्धिमाह - भवतु ममैषाऽनुमादनेत्यादि ॥ अत्र हि सामान्येनैव कुशलव्यापाराणामनुमोद्यत्वमुक्तमिति मिथ्याद्दशामपि स्वाभाविकदानरुचित्वादिगुणसमूहो व्यक्त्याऽनुमोद्यो न तु तद्विशेष एवाश्रयणीयः । यत्तु दानमपि परेषामधर्मपोषकत्वादशेषाणां जीवानां दानरुचित्वं स्वभावविनीतत्वम् । तथा प्रतनुकषायत्वं परोपकारित्व-भव्यत्वं ॥ १० ॥ दाक्षिण्यदयालुत्वं प्रियभाषित्वादिविविधगुणनिवहम् । शिवमार्गकारणं यत्तत्सर्वमनुमतं मम ॥ ११ ॥ १ २ अनुमोदे सर्वेषामर्हतामनुष्ठानम्, सर्वेषां सिद्धानां सिद्धभावम्, सर्वेषामाचार्याणामाचारम्, सर्वेषामुपाध्यायानां सूत्रप्रदानम्, सर्वेषां साधूनां साधुक्रियाम्, सर्वेषां श्रावकाणां मोक्षसाधनयोगान् सर्वेषां देवतानां सर्वेषां जीवानां भवितुकामानां कल्याणाशयानां मार्गसाधनयोगान् । भवतु मे एषाऽनुमोदनेति । "
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy