________________
एतदृत्तियथा---शीलमष्टादशशीलासहस्रसंख्यम् , यदि वा महाव्रतसमान धान पश्चेन्द्रियजयः कायनिग्रहस्त्रिगुतिगुप्तता चेत्येतच्छील विद्यते येषां ते शीलवन्तः। तथोपशान्ताः, कषायोपशमाद् । अत्र शीलवद्रहणेनैव गतार्थत्वाद् ' उपशान्ताः' इत्येतद्विशेषणं कषायनिग्रह साधान्यख्यापनार्थम् । सम्यक् ख्याप्यते प्रकाश्यतेऽनयेति संख्या-ज्ञा, लया रीयमाणाः-संयमानुष्ठानेन पराक्रममाणाः । कस्यचिद्विश्रान्तभागधेयतया 'अशीला एते ' इत्येवमनुवदतो अनु पथाद् वदतोऽ पवदतः, अन्येन वा मिथ्यादृष्ट्यादिना 'कुशीलाः' इत्येवमुक्तेऽनुवदतः पार्श्वस्थादोदितीयैषा मन्दस्याज्ञस्य बालता-मूर्खता । एकं तावत्स्वतश्चारित्रापगमः, पुनरपरानु युक्तविहारिणोऽपवदतीत्येषा द्वितीया वालता । यदि वा 'शीलवन्ता एते, उपशान्ता वा' इत्येवमन्येनाभिहिते 'क्वैषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा' इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति । अपरे तु वीर्यान्तरायोदयात्स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारगोचरमावेदयेयुरिति एतदर्शयितुमाह-णिअहमाणा इत्यादि । एके कदियासंयमाभिवर्तनाना लिङ्गाद्वा वाशब्दादनिवर्तमाना वा यथावस्थितमाचारगोचरमाचक्षते । वयं तु कर्तुमसहिष्णवः, आचारस्त्वेवंभूतः' इत्येवं वदतां तेषां द्वितीयबालता न भवत्येव । न पुनर्वदन्ति एवंभूत एव आचारो योऽस्माभिरनुष्ठीयते, साम्प्रतं दुःपनानुभावेन बलाद्यपगमान्मध्यमभूतैव वर्तिनी श्रेयसी नोत्सर्गावसर इति । उक्तं हि
"नात्यायतं न शिथिलं यथा युञ्जीत सारथिः।
तथा भद्रं वहन्त्यश्वा योगः सर्वत्र पूजितः ॥" अपि च---
“जो जत्थ होइ भग्गो ओगास सो परं अविदंतो। _ गंतुं तत्थ वयंतो इमं पहाणंति घोसेइ ॥” इत्यादि । ___.. किंभूताः पुनः ? एतदेव समर्थयेयुरित्याह-नाणभट्ठा। सदसद्विवेको ज्ञानं तस्माद्धष्टा ज्ञानभ्रष्टाः। तथा दंसणलूसिणोत्ति। सम्यग्दर्शनविध्वंसिनो सदनुष्ठानेन स्वतो विनष्टाः, अपरानपि शङ्कोत्पादनेन सन्मार्गाच्यावयन्तीति ॥
__ यो यत्र भवति भग्नोऽवकाशं स परमविन्दन् ।
गन्तुं तत्र वजन् इदं प्रधानमिति घोषयतिः॥