________________
- नथा च संविग्नपाक्षिकातिरिक्तस्य पावस्थादेरपि द्वितीयबालता, नियामकनियतोत्सूत्रसद्भावात् , तस्यानन्तसंसारनियमान्निलवस्यापि तदनियम एव, भवभेदस्य भावभेदनियतत्वादिति प्रतिपत्तव्यम् ॥
ननु कर्म तावदुत्कर्षतोऽप्यसंख्येयकालस्थितिकमेव ब-यने, तत्कथं तोत्राध्यवसायवतामप्युत्सूत्रभाषिणामनन्तसंसारित्वं स्याद् ? इत्याशङ्कायामाहकम्य बन्धइ पावं जो खलु अगुवरयतिव्वपरिणामो। असुहाणुबन्धजोगा अणंतसंसारिआ तस्स ॥७॥
कम्मति । कर्म बध्नाति पापं यः स्वल्वनुपरततीव्रपरिणामः-- अविच्छिन्नतथाविधसंक्लिष्टाध्यबसायः स्वेच्छानुरोधान्नियतात्रवप्रवृत्तो वानियतात्रवप्रवृत्तो वा नियतोत्सूत्रभाषी वानियतोत्सूत्रभाषी वाऽप्राप्तानुशयस्तस्याशुभानां ज्ञानावरणीयादिपापप्रकृतीनामनुबन्धस्योत्तरवृद्धिरूपस्य बध्यमानप्रकृतिषु तजननशक्तिरूपस्य वा योगात्संबन्धादनन्तसंसारिता भवति । ग्रन्थिभेदात्प्रागप्यनन्नसंसारार्जनेऽशुभानुबन्धस्यैव हेतुत्वात्प्राप्तसम्यग्दर्शनानामपि प्रतिपातेन तत एवानन्तसंसारसंभवात् । तदुक्तमुपदेशपदे
" 'गंठीइ आरओ विहु असई बंधो ण अन्नहा होइ ।
ताए सो वि हु एवं णेओ असुहाणुबन्धोत्ति ॥” । ततश्च बन्धमात्रान्नानन्तसंसारिता, किन्त्वनुबन्धादिति स्थितम् । अत एवाभोगादनाभोगाद्वोत्सूत्रभाषिणामपीह जन्मनि जन्मान्तरे याऽऽलोचितप्रतिक्रान्ततत्पातकानामनुबन्धविच्छेदान्नानन्तसंसारिता, केवलमनन्तभववेद्यनिरुपक्रमकर्मबन्धे तन्निःशेषतां यावत्प्रायश्चिच- . प्रतिपचिरेव न स्याद् , अध्यवसायविशेषाद् । नियतोपक्रमणीयस्वभाव
कर्म बध्नाति पापं यो खल्वनुपरततीव्रपरिणामः। .. अशुभानुवन्धयोगादनन्तसंसारिता तस्य ॥ ७॥ ग्रन्येरारतोऽपि खलु असकृद् बन्धो नान्यथा भवति । तस्याः सोऽपि खल्वेवं शेयोऽशुभानुबन्ध इति ।