SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १३ तीव्रध्यवसाय आभोगयतामनाभोगवतां वा शासनमालिन्यनिमित्तप्रवृत्तिमतां रौद्रानुबन्धानां स्याद्, अनाभोगेनापि शासनमालिन्यप्रवृत महा मिथ्यात्वार्जनोपदेशात् । तदुक्तमष्टकप्रकरणे " यः शासनस्य मालिन्येऽनभोगेनापि वर्तते । स तन्मिथ्यात्व हेतुत्वादन्येषां प्राणिनां ध्रुवम् ॥ बनात्यपि तदेवालं परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थ निबन्धनम् ॥ " शासनमालिन्यनिमित्तप्रवृतिश्च निहवानामिव यथाछन्दादीनामप्यविशिष्टेति कोऽयं पक्षपातः ? यदुत निहवानामनन्तसंसारनियम एवं यथाछन्दादीनां त्वनियम इति । अनाभोगेनापि विषयविशेषद्रोहस्य विषमविपाकहेतुत्वाद्, अनियतोत्सूत्रभाषणस्य निशङ्कताऽभिव्यञ्जकतया सुतरां तथाभावात् । यथा याभोगेनोत्सूत्रभाषिणां रागद्वेषोत्कर्षादतिसंक्लेशस्तथा भोगेनोत्सूत्र भाषिण: मध्यप्रज्ञापनीयानां मोहोत्क पदयं भवन्ननिवारित एव । अत एव तेषां भावशुद्धिरप्यप्रमाणम्, मार्गाननुसारित्वात् । तदुक्तमष्टकप्रकरणे " भावशुद्धिरपि ज्ञेया येषा मार्गानुसारिंगी । प्रज्ञापना प्रियाऽयर्थं न पुनः स्वाग्रहात्मिका ॥ रागो देव मोहन भावमालिन्यहेतवः । एतदुत्कर्षतो ज्ञेयो हन्तोत्कर्षस्य तत्रतः ।। तथोत्कृष्टे जगत्यस्मिन् शुद्धिर्वै शब्दमात्रकम् । स्वबुद्धिकल्पनाशिल्पनिर्मितं नार्थवद् भवेदिति ॥ किं च- पार्श्वस्थादीनां नियतोत्सूत्रमप्युयुक्तविहारिणामपवादलक्षणं द्वीतीयबालतानियामकमस्त्येव । यदाचारसूत्रम् “ सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बितिया मन्दस्स बाया णिअट्टमाणा वेगे आयारगोयरमाइक्खति नाणभट्ठा दंसणलूसिणोति ॥ 19 १ शीलवन्त उपशान्ता संख्यया (ज्ञानेन) रीयमाना (पराक्रममाणाः) 'अशीलाः' अनुवदतो द्वितीया मन्दस्य बालता, निवर्तमाना वा एके आवारगोचरमाचक्षतेज्ञानभ्रष्टा दर्शनलूषेिण इति ।
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy