________________
१२
णियउत्तत्ति । नियतोत्सूत्रं निमित्तं यस्यां सा तथा संसारा" नवता न सूत्रोक्ता, नियतोत्सूत्रं विनाऽपि मैथुनप्रति सेवामार्गसमाचरण -तद्वन्दनादिनाऽप्यनन्तसंसारार्जनेन व्यभिचारात् । न चो त्सूत्रभाषणजन्येऽनन्तसंसाराजने नियतोत्सूत्र भाषणस्यैव हेतुत्वान्न दोषः, तादृशकार्यकारणभावयोधक नियत सूत्रानुपलम्भाद् ।
उस्सुत्तभासगाणं बोहीणासो अणंतसंसारो "--
46
इत्यादिवचनानां सामान्यत एव कार्यकारणभावग्राहकत्वाद् । उत्तरकालं तत्र नियतत्वाख्यो विशेषः कल्प्यते इति चेद्, नैतदेवम्, तथा सति यथाछन्दस्य कस्याप्यनन्तसंसारानुपपत्तिप्रसक्तेः, तस्य त्वदभिप्रायेणा परापरभावेन गृहीतयुक्तोत्सूत्रस्य नियतोत्सृत्रभाषित्वाभावात् ।
तथा च
१.
" सव्वष्पवयणसारं मूलं संसारदुक्खमुक्खस्स । संमत्तं मइलित्ता ते दुग्गइवडया हुंति ॥
"
इत्यादिभाष्यवचनविरोधः । अथ यथाछन्दस्यापि यस्यानन्तसंसाराजनं तस्य क्लिष्टाध्यवसायविशेषादेव, उन्मार्गपतितस्य मिह्रवस्य तु नियतोत्सूत्र भाषणादेवेति न दोष इति चेद् । नं, एवं सत्यनियत हेतुकत्वप्रसङ्गाद् । अनियतहेतुकत्वं नामेति व्यक्तमाकरे । तथा च विप्रतिपन्न उन्मार्गस्थोऽनन्तसंसारी, नियतोत्सूत्रभाषित्वाद् इत्यत्राप्रयोजकत्वम्, किं तर्हि अनन्तसंसारतायामनुगतं नियामकमित्याह-तस्याः संसारानन्ततायाः कारणं भिन्न एवानुगतोऽध्यवसायस्तीव्रत्वसंज्ञितः केवलिना, केवलिना निश्चीयमानोऽस्तीति गम्यम् । यस्य संग्रहा देशास्वातन्त्र्येणैव तस्यामनुगतं हेतुत्वम्, व्यवहारादेशाच्च क्रियाविशेषे सहकारित्वं घटकत्वं वा । शब्दमात्रानुगततीव्राध्यवसायसहकृतायातत्पूर्वीकाया वा पापक्रियाया अनन्तसंसारहेतुत्वव्यवहारात् । स च
..उत्सूत्रभाषकानां बोधिनाशोऽनन्तसंसारः ॥ सर्वप्रवचनसारं मूलं संसारदुःखमोक्षस्य । सम्यक्त्वं मलिनयित्वा ते दुर्गतिवर्द्धका भवन्ति -