________________
"प्रतिपद्य तथा रामो जगाम मरतावनौ । तथैव कृत्वा ते रूपे दर्शयामास सर्वतः ।। एवमूचे च भो लोकाः ! कृत्वा नौ प्रतिमाः शुभाः। प्रकृष्टदेवताबुद्धया यूर्य पूजयतादरात् ॥ वयमेव यतः सृष्टिस्थितिसंहारकारिणः। वयं दिव इहायामो यामश्च स्वेच्छया दिवम् ॥ निर्मिता द्वारकाऽस्माभिः संहृता च यियासुभिः । कर्ता हर्ता च नान्योऽस्ति स्वर्गदा वयमेव च। एवं तस्य गिरा लोकः सर्वो ग्रामपुरादिषु । प्रतिमाः कृष्णहलिनोः कारंकारमपूजयत् ॥ प्रतिमार्चनकणां महान्तमुदयं ददौ ।
स सुरस्तेन सर्वत्र तद्भक्तोऽभूजनोऽखिलः ॥” इति ॥६॥ ननु बलभद्रस्योत्सूत्रवचनमिदं न स्वारसिकमतो न नियतम् , नियतोत्सूत्रं च निवत्वकारणम् , अत एवापरापरोत्सूत्रभाषिणां यथाछन्दत्वमेव, नियतोत्सूत्रभाषिणां च निवत्वमेव । तदुक्तमुत्सू. प्रशन्दकुद्दालकृता-
"तस्मादनियतोत्सूत्रं यथाछन्दत्वगेषु ।
न तदवस्थितकोत्सूत्रं निह्नवत्वमुपस्थितम् ॥” इति एतदेव च नियमतोऽनन्तसंसारकारणम् । अत एव यः कश्चिद् मार्गपतितोऽप्युत्सूत्रं भणित्वाऽभिमानादिवशेन स्वोक्तवचनं स्थिरीकर्तुं कुयुक्तिमुद्भावयति, न पुनरुत्स्नभयेन त्यजति स युन्मार्गपतित इबावसातव्यः, नियतोत्सूत्रभाषित्वात् , तस्यापरमार्गाश्रयणाभावेऽपि निह्नवस्येवासदाग्रहवत्त्वाद् इत्यस्मन्मतमित्याशङ्कायामाह-- णियउस्सुत्तणिमित्ता संसाराणंतया ण सुत्तुत्ता। अज्झवसायाणुगओ भिन्नो चिय कारणं तीसे ॥६॥
नियतोत्सूत्रनिमित्ता संसागनन्तता न सूत्रोक्ता। अध्यवसायानुगतो टिन एय कारणं तस्याः ॥६॥