________________
देवोत्सूत्र भाषणम्, तच्च नानन्तसंसारकारणम्, उन्मार्गपतितानां तु सर्वेषामाभोगवतामनाभोगवतां वा तदनन्तसंसारकारणमेव, तीर्थोच्छेदाभिप्रायमूलत्वादिति, साध्वाचारोच्छेदाभिप्रायस्य यथाछन्देऽप्य विशेषात् ।
अथ- उम्मग्मग्गसंपआिण साहूग गोअमातूगं ( 2 ) । संसारी अ अणंतो होइ य समग्गगासीणं ॥ "
66
इति गच्छाचारप्रकीर्णकवचनबलादुन्मार्गपतितानां निवानामनन्त एव संसारो ज्ञायते न तु यथाछन्दानामपि, अपरमार्गाश्रयणाभावादिति चेद् । उन्मार्गपतितो निहव एवेति कथमुद्देश्यनिर्णयः ? साधुपदेन शाक्यादिव्यवच्छेदेऽपि यथाछन्दादिव्यवच्छेदस्य कर्तुमशक्यत्वात्, गुणभेदादिनेव क्रियादिविपर्यासमूलकदालम्बनत्ररूपण वाऽप्युन्मार्गभ वनाविशेषाद् । न हि ' मार्गपतित' इत्येतावता शिष्टाचारनाशको यथाछन्दादिरपि नोन्मार्गगामी ।
,
अथ यथाछन्दादीनामप्युन्मार्गगामित्वमिष्यते एव, न त्वन्तसंसारनियमः, तनियमाभिधायकवचने उन्मार्गसंप्रस्थितपदेन तीर्थच्छेदाभिप्राययत एवं ग्रहणादिति चेद् । अहो किंचिडपूर्वयुक्तिकौशलम् ! यदुक्तवचनवलात्तीर्थच्छेदाभिप्राययतां निवानामनन्तसंसारनियमसिद्धी पदविशेषतात्पर्यग्रहः तस्मिंश्च सति तत्सिद्धिरित्यन्योन्याश्रयदोषमापतन्तं न वीक्षसे । संप्रदायादीदृशोऽर्थी गृहीत इति न दोष इति वेद् । न, संप्रदायादध्यवसायं प्रतीत्य निहृवानामपि संख्यातादिभेदभिन्नस्यैव संसारस्य सिद्धत्वाद्, उन्मार्गसंप्रस्थितानां तीव्राध्यषसायानामेव ग्रहणे . बाहुल्याभिप्रायेण व्याख्याने दोषाभावाद् | न चेदेवं तदा ' वयमेव सृष्टिस्थित्यादिकारिणः' इत्या पुत्सूत्र भाषिणोऽनवच्छिन्नमिथ्यात्व संतानपरमहेतोस्तीर्थोच्छेदाभिप्रायवतो बलभद्रस्य जीवस्याप्यनन्तसंसारोत्पत्तिः प्रसज्येत । न चैतदशास्त्रीयं वचनम्, त्रिषष्टीयनेमिचरित्रेऽप्येवमुक्तत्वात् । तथाहि
"
उन्मार्गमार्गसंप्रस्थितानां साधूनां ...... ( ? ) । संसारश्चानन्तो भवति स्वमार्गनाशिनाम् ॥