________________
सूर्योदये स्वं भ्रान्तं मन्यमानोऽकामनिर्जरायोगादिना कथंचिन्मनुजभवं पाप्य कर्मक्षयोपशमवशाजाततत्त्वान्वेषणश्रद्धो मिश्रादिगुणस्थानकयोगादपगतदिगमोहसममिथ्यात्वहेतुकतत्त्वव्यामोहः कथमपि यक्षसमसद्गुरुं प्राप्य तदुपदेशबहुमानादवगतं ज्ञानादिमोक्षमार्ग तदनुगतसम्यगनुष्ठानादिना भजमान उत्कर्षतः पुद्गलपरावर्तमध्ये परेभ्यः पश्वेभ्योऽपि मित्रेभ्यः पश्चादनन्तेन कालेन स्वेष्टपुरसमं मोक्षमवाप्नोतीति। ... ननु यद्यप्येवं दशाश्रुतस्कन्धचूर्ण्यनुसारेण क्रियावादिनः सम्यग्दष्टि-मिथ्यादृष्टयन्यतरत्वमुत्कर्षतोऽन्तःपुद्गपरावर्तमानसंसारत्वेन शुक्लपाक्षिकत्वं च नियमतो लभ्यते, अक्रियावादिनश्च नियमान्मिथ्यादृष्टित्वं कृष्णपाक्षिकत्वं च तथापि नात्र निश्चयः कर्तुं पार्यते, अन्यत्रापार्द्धपुद्गलपरावर्ताधिकसंसारस्यैव कृष्णपाक्षिकत्वप्रतिपादनात् । - तदुक्तम्
जेसिमवड्डो पुग्गलपरिअट्टो सेसओ उ संसारो। ते सुकपक्खिआ खलु अहिए पुण कण्हपक्खिया ।" “ येषामपार्द्धपुद्गलपरावर्त एव शेषः संसारस्तत ऊर्ध्व सेत्स्यते ते शुक्लपाक्षिकाः क्षीणप्रायसंसाराः । खलुशदो विशेषणार्थः । प्राप्तदर्शना अप्राप्तदर्शना वा सन्तीति विशेषयति । अधिके पुनरपार्द्धपुद्गलपरावर्तात्संसारे कृष्णपाक्षिकाः क्रूरकर्माण इत्यर्थः ॥” इत्यादिश्रावकप्रज्ञप्तिवृत्ती योगबिन्दुवृत्तावप्युक्तम् । तत्रापि शुक्लपाक्षिकोपार्द्धपुद्गलपरावर्तान्तर्गतसंसारः । यत उक्तं "जेसिमबड्डो पुग्गल०" इत्यादि। ततो हि क्रियावादिनः शुक्लपाक्षिकत्वं भजनीयमेव लभ्यते, अक्रियावादिनोऽपि नियमतः कृष्णपाक्षिकत्वमिति विघटते एव; अपार्धपुद्गलपरावर्ताभ्यन्तरीभूतसंसाराणामप्यक्रियावादिनां संभवात् , तस्यापि कृष्णपाक्षिकत्वभजनाया एव संभवात् । नास्तिकत्वपक्षो ह्यक्रियावादः " अस्थित्ति किरियवाई वयन्ति णस्थित्ति अकिरियवाई"त्ति वचनात्। १ येमापपार्धः पुद्गलपरावतः शेषस्तु संसारः।
. ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्ण पाक्षिकाः॥ २ अस्तोति क्रियावादिलो वदन्ति, मास्तोति अक्रियावादिनः ॥