SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२१ स च कर्मवैचित्र्यवशादल्पतरभवानामपि प्रदेश्यादिवद् भवतीति । अत एव भगवत्यां "सुक्कपक्खिया जहा सलेस्स"त्ति सलेश्यातिदेशेन शुक्लपाक्षिकस्याप्यक्रियावादसंभब उपदर्शितः। तथा च सलेश्याधि. कारप्रश्ननिर्वचनसूत्रम् " सेलेस्सा णं भंते जीवा किं किरियावादी ? पुच्छा। गोपमा । किरियावादीवि, जाव वेणइअवादीवि"त्ति ॥ नत इमामनुपपत्तिं दृष्ट्वा भगवत्यर्थ एव मनो देयम् । भगवत्यां हि सम्यग्दृष्टय एव क्रियावादिनः प्रतिपादिताः, " मिच्छट्टिी जहा कण्हपक्खिया” इत्पत्तिदेशात् । ___ " कण्हपक्खिआ णे भंते जीवा कि किरियावादी ? पुच्छा । गोयमा णो किरियावादी, अकिरियावादीवि अन्नाणियवादीवि वेणइअवादीवि"त्ति-वचनास्कृष्णपाक्षिकाणां च क्रियावादित्वप्रतिषेधादिति । युक्तं चैतत् , सूत्रकृताङ्गेऽपि समवसरणाध्ययननिर्युक्तावित्थं प्रतिपादितत्वात् । तथा त तत्पाठः " सम्मद्दिट्ठी किरियावादी मिच्छा य सेसगा वादी । जहिऊण मिच्छवायं सेवह वादं इमं सर्च ॥" 'इति चेत् । मैवम् । एकशास्त्राधलम्बनेनापरशास्त्रदूषणस्य महाशातनारूपस्वाद उभयशास्त्रसमाधानस्यैव न्याय्यत्वात् । तत्र भगवत्या सूत्रकृतनियुक्तौ च क्रियावादिविशेषस्यैव ग्रहणाद् (अत्र) अक्रियावादिसा. मान्यस्य ग्रहणान्न ग्रन्थविरोधः । तदुक्तं भगवतीवृतौ-"एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टय एधोक्तास्तथापीह क्रियावादिनः सम्यग्दृ१ शुक्लपाक्षिका यथा सलेल्या इति । सलेश्या भगवन् ! जीवाः किं क्रियावादिनः ? प्रश्नः । गौतम ! क्रियावादिनोऽपि यावत् वैनथिकवादिनोऽपीति ॥ ३ कृष्णपाक्षिका भगवन् जीवाः किं क्रियावादिनः ? प्रश्नः । गौतम ! नोकियावादिनः, अक्रियावादिनोऽपि, अशानिकवादिनोऽपि वैनथिकवादिनोऽपीति । सम्यग्दृष्टयः क्रियावादिनो मिथ्या च शेषका वादिनः । हिल्या मिथ्यावादं सेवचं वादमिमंसत्यम् ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy