________________
१२२
3
टयो ग्राह्याः सम्यगस्तित्ववादिनामेव तेषां समाश्रयणात् " इति । सूत्रकृतवृत्तावप्युक्तम्- " नतु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तस्तत्क 'थमिह सम्यग्दृष्टित्वेनोच्यते ? उच्यते स तत्र ' अस्त्येव जीवः' इत्येवं सावधारणतयाऽभ्युपगमं कुर्वस्तथा 'काल एवैकः सर्वस्यास्य जगतः कारणं' तथा ' स्वभाव एव नियतिश्च पूर्वकृतमेव पुरुषाकार एव इत्येव'मपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम् । तथाहि - ' अस्त्येव जीवः' इत्येवमस्तिना सह जीवस्य सामानाधिकरयाद् यदस्ति तज्जीव इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितम् । तथा कालादीनामपि समुदितानां परस्परसत्यपेक्षाणां कारणत्वेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदितानां सम्यक्त्वसद्भावः ?, न हि यत्प्रत्येकं नास्ति तत्समुदाये भवितुमर्हति सिकतातैलवत् । नैतदस्ति, प्रत्येकं पद्मरागादिमणिष्वविद्यमानाऽपि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्किंचिदेतदित्यादि ॥ " या च क्रियावादिसामान्यस्यान्तः पुद्गलपरावर्ताभ्यन्तरसंसारत्वेन नियमतः शुक्लपाक्षिकत्वानुपपत्तिः सा क्रियारुचिरूपेण शुक्लपक्षेण शुक्लपाक्षिकत्वमवलम्ब्य परिहर्तव्या । अत एवाक्रियावादिनो नियमात्कृष्णपाक्षिकत्वमपि संगच्छते, क्रियापक्ष एव शुक्लोऽक्रियापक्षस्तु कृष्ण इति । अन्यथा निरवधारणपक्षाश्रयणे क्रियावादिवदक्रियावाद्यपि सम्यग्दृष्टिः स्यात् । अथवोत्कृष्टतः पुद्गलपरावर्त संसारिजातीयत्वमत्र शुपाक्षिकत्वं तदधिकसंसारिजातीयत्वं च कृष्णपाक्षिकत्वं विवक्षितमित्यदोष इति प्रतिभाति । तत्वं तु बहुश्रुता विदन्ति ॥
यत्तच्यते- केनचिदकामनिर्जराङ्गत्वान्न मिध्यादृशां किमपि कृत्यमनुमोदनीयमिति । तदसत् मिथ्यादृशामपि प्रकृतिभद्रकत्वादिगुणari 'कर्मक्षयो मे भूयाद् इतीच्छ्या स्वयोग्यशीलतपः प्रभृति सदनुष्ठानकारिणां सकामनिर्जराऽनपायात् । सह कार्मेण मोक्षाभिलाषेण वर्तते या सा सकामा, तद्विपरीता त्वकामेति हि सकामा कामयोर्निर्जरयोर्लक्षणम् ।