SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२३ "" तदुक्तं योगशास्रवृत्ती- “ सा निर्जरा द्वधा । सह कामेन 'निर्जरा में भूयाद्' इत्यभिलाषेण युक्ता सकामा, न त्विहलोकपरलोकफलादिकामेन युक्ता, तस्य प्रतिषिद्धत्वात् । यदाहु:- "नो इहलोगट्टयाए तव महिडिजा ” इत्यादि इत्येका निर्जरा । द्वितीया त्वकामा कामेन पूर्वोक्तेन वर्जितेति । CL न च वाच्यं " ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् इत्यनेन योगशास्त्रस्यैव वचनान्तरेण यतीनामेव सकामा निर्जरा सि ध्यति मिथ्यादृशां तु कर्मक्षयाग्रर्थं तपःकष्टं तन्यतामप्यकामैवेति । ज्ञेया सकामा यमिनाम् " - इत्यादिना वचनस्योत्कृष्ट कामनिर्जरास्वामिकथनपरत्वाद् उत्कृष्टा हि सकामनिर्जरा तेषामेव भवेदिति । अन्यथा देशविरसम्यग्दृशां चाकामनिर्जरैव प्राप्नोति तेषामपि यमिशब्दाव्यपदेश्यत्वेन विशेषाभावाद् । न चैतदिष्टम्, तस्मादेतद्वचनमुत्कृष्टसकामनिर्जराधिकारिकथनपरमिति न दोषः । किं च ज्ञेया सकामेत्यादिश्लोकव्याख्यानेऽप्यकामनिर्जराखामिनो निरभिलाषे विरभिप्रायं च कष्टं सहमाना एकेन्द्रियादय एवोक्ताः, न तु बालतपत्र्यादय मिवाशोऽपि । तथाहि-सकामा निर्जराऽभिलाषवतां यमिनां यतीनां विज्ञेया । ते हि कर्मक्षयार्थं तपस्तप्यन्ते । अकामा तु कर्मक्षयलक्षणफरुनिरपेक्षा निर्जरा अन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां प्रामिनाम् । तथाहि - एकेन्द्रियाः पृथिव्यादयो बनस्पतिपर्यन्ताः शीतोष्ण-वर्षजनित्राद्यभिघातच्छेद भेदादिनाऽसद्वेद्यं कर्मानुभूय नीरसं तस्वदेशेभ्यः परिशाटयन्ति, विकेलन्द्रियाश्च क्षुत्पिपासा शीतोष्णवा-सादिभिः पवेन्द्रियास्तिर्यञ्चश्च च्छेद भेददाहशस्त्रादिभिः, नारकाञ्च त्रिविधया वेदना, मनुष्याश्च क्षुत्पिपासाव्याधिदारिद्र्यादिना, देवाच पराभियोगकिल्विषत्वादिनाऽसद्वेद्यं कर्मानुभूय स्वप्रदेशेभ्यः परिशाटयन्तीत्येषामकामनिर्जरेति ॥ 5 समयसारसूत्रवृत्योरप्येवमेदोक्तम् । तथाहि " इदानीं निर्जरा सत्यं निगद्यते - " अणुभूअरसाणं कम्म पुग्गलाणं परिसडणं शिजरा ।" १ न इहलोकार्थं तपोऽधितिष्ठेत् । २ अनुभूतरसानां कर्मपुङ्गलानां परिशटनं निर्जरा
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy