________________
उपभुक्तविपाकानां परिशटनमात्मप्रदेशेभ्यः प्रच्यवनं निर्जरा । अथ तस्या भेदावाह-सा दुविहा पण्णता सकामा अकामा य । सह कामेन 'निर्जरा मे भूयाद्' इत्यभिलाषेण न त्विह परलोकादिकामेन युक्ता सकामा। अनन्तरोक्तकामवर्जिता त्वकामा। चशब्दः समुच्चये। उपायात्स्वतोऽपि वा फलानामिव कर्मणां पाकस्य भावान्निर्जराया इदं द्वैविध्यमिति भावः। तत्राकामा केषाम् ? इस्याह-" तत्थ अकामा सव्वजीवाणं " निर्जराभिलाषिणां तापस्तप्यमानानां सकामनिर्जरेति वक्ष्यमाणत्वाद् तद्व्यतिरिक्तानां सर्वेषां जीवानामकामा, कर्मक्षयलक्षणाभिलाषवर्जितत्वाद् । एतदेव चतुर्गतिगतजन्तुषु व्यक्तीकुर्वन्नाह । तथाहि-" ऐगिदिआई तिरिआ जहासंभवं छेअ-भेअ-सी-उण्ह-वास जल ग्गिछुहा-पिवासा-कसंकुसाईएहिं, नारगा तिविहाए वेअणाए, मणुआ छुहा पिवासावाहि-दालिद्द-चारगणिरोहणाइणा, देवा पराभिओग-किब्बिसत्ताइणा असायावेअणिशं कम्ममणुभविउं: पडिसाडिति तेसिमकामणिज्जरा ॥".
" तथाहीति पूर्वोक्तस्यैचोपक्षेपे । छेद-भेद-शीतोष्ण-वर्ष-जलाग्निक्षुधापिषासा-कशाङ्कुशादय एकन्द्रियादिषु पञ्चेन्द्रियपर्यन्ततिर्यक्षु योज्या । नारकाणां त्रिविधा वेदना क्षेत्रजाऽन्यान्योदीरित-परमाधार्मिकजनितस्वरूपा । 'वाहित्ति व्याधिः, चारकनिरोधः कारागारग्रहः । शेषं सुबोधम् । सकामनिर्जरामाह-सका माणिजराषुण गिजराभिलासीण अणसण-ऊणोयरिआ-रसञ्चाय-कायकिलेस-पसंलिणआभेअं छविहं बाहिरं पायच्छित्त-विणअ-वेयावच्च-संसज्झाय-झाण-विउस्सग्गभेअं छविहमाभितरं च तवं तवंताणं । निर्जराभिलाषिणामनशनादिभेदं षड्विधं बाह्यं प्रायश्चित्तादिभदं षड्विधमाभ्यन्तरं च तपस्तप्यमानानां भवति सकामा निर्जरेति संटंक इत्यादि ॥”
१ सा द्विविधा प्रक्षप्ता सकामा अकामा च । २ तत्राकामा सर्वजीवानाम् ।
३ एकेन्द्रियादयस्तिञ्चो यथासंभवं छेद-भेद-शीतोष्ण-वर्षा जलाशि-क्षुधा पिपासा-कशा-ऽङ्कुशादिभिः, नारकास्त्रिविधया घेदनया, मनुजाः क्षुधा-पिपासा. च्याधि-दारिद्य-चारकनिरोधनादिना, देवाः पराभियोग-किल्विषत्वादिना अशातावेदनोयं कर्मानुभूय प्रतिशाटयन्ति तेषामकामनिर्जरा ।
४ सकामनिर्जरा पुनर्निर्जगभिलाषिणामनशनोदरिका-रसत्याग-कायक्लेश-प्रतिसंलोनताभेदं षाविधं बाह्यं प्रायश्चित्त-विनय-चैयावृत्य-संस्वाध्याय-ध्यान-व्युत्सर्गभेदं पविधमाभ्यातरं तपस्सप्यमानानाम् ॥