________________
न चात्रापि तपसः सकामनिर्जरारूपत्वप्रतिपादनाद् मिथ्याहशां च तदभावान्न सकामनिजरेति वाच्यम् , मिथ्यादृशामपि मार्गानुसारिणां तपश्चान्द्रायणं कृच्छ्रम्' इत्यादिना तपसः प्रतिपादनात् । किं चमार्गानुसार्यनुष्ठानमात्रमेव सकामनिर्जरायां बीजम् , अविरतसम्यग्दष्टयनुरोधात् न त तपोमात्रमेवेति न काप्यनुपपत्तिः । अत एव स्फुट मोक्षाभिलाषसत्त्वेऽपि मिथ्यादृशांप्रबलासद्ग्रहदोषवतांतदभाववतामादिधार्मिकाणामिव फलतो न सकामनिर्जरा, मार्गानुसार्यनुष्ठानाभावात् , तदभावपि च स्वाभाविकानुकम्पादिगुणवतां मघकुमारजीवहस्त्यादीनां फलन सायाधि नेति विभावनीयम् । युक्तं चैनत् पञ्चस्वनु ठानेषु तद्धत्वमृतानुष्ठानयोरिव सकामनिर्जराङ्गत्वव्यवस्थितः । अत एवानुचितानुष्ठानमकामनिर्जराङ्गमुक्तम् । तथा च धर्मबिन्दुसूत्रवृत्तिवचनम् । " अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययादिति "॥ अननुष्ठानमनुष्ठानमेव न भवति, 'अन्यद् ' विलक्षणमुचितानुष्ठानाद् । तर्हि कीदृशं तत् ? इत्याह-' अकामनिर्जराङ्गम् ' अकामस्य निरभिलाषस्य तथाविधवलीवर्दादेरिव या निर्जरा कर्मक्षपणा तस्या अङ्गं निमित्तम् । ननु मुक्तिफल. योर्निर्जरयोः कुलः ? ___ इत्याह-'उक्तविपर्ययाद्' उदग्रविवेकाभावेन रत्नत्रयाराधनाभाघादिति ॥ उचितानुष्ठानं च साध्वादीनां यथाशुद्धचारित्रपालनादीकं तथा मार्गानुसारिणां मिथ्याशामपि सामान्यतः सदाचारादिकम् , भूमिकाभेदनौचित्यव्यवस्थानात् , ततोऽधिकारिभेदेन यद् यदोचितमनुष्ठानं तत्तदा साक्षात्पारम्पर्येण वा निर्वाणफलमिति सकामनिर्जराङ्गन् । यद्यानुचितं " तदनुचित प्रतिपती नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रादिति ॥"-वचनात् अभिनिवेशसह कृतत्वेन विपरीतफलमिति तत्त्वतोऽकामनिर्जराङ्गामिति मन्तव्यम् । इत्थं च “ तओ भणियं नाइलेग, जहा मा वच्छ । तुमं एतेणं परिओसमुवयासु । जहा अहयं आसवारेग परिमुसिओ अकामणिजराएवि किंवि कन्मस्खओ हवइ किंपुण जं वाललवणं । ता एते बालतवस्सिगो दट्टये, जओ णं किंचि उस्सु तुम्मग्गयारित्त
१ नतो भागतं नागिलेण, यथा मा घत्स! त्वमेतेन परितोषमुपयाहि । यथाऽहमश्ववारेण परिमुषितोऽकामनिर्जरयाऽपि किंचित्कर्मक्षयो भवति किं पुनर्थ बालसपसा ? । तस्मादते बालतपस्विनो द्रष्टव्याः । यतः खलु किंधितुत्सूत्रोन्मार्गचारित्व