________________
मेएसि य दीसइ"। इत्यादि महानिशीथचतुर्थाध्ययनवचनाद् अकाम-- निर्जराजन्यात्कर्मक्षयाद बालतपोजन्यस्य तस्य भूयस्त्वास द्वेः। “ अणुकंपकामणिज्जरबालतवे दाणविगंयविभंगे।" इत्यादौ सम्यक्त्वप्राप्तहेतु-.
" महव्वयअणुबएहि य बालतबाकामणिजराए य ।
देवाउअं णिबंधई सम्मदिट्टी य जो जीवो ॥”इत्यादौ देवायुः कारणेषुः च भेदेनाभिधानादकामनिर्जरा-बालतपसो भेदो यः प्रोच्यते स स्वरूपभेदं निजनिजफलभेदं चापेक्ष्यबालतपः सर्वमेवाकामनिर्जराङ्गमिति परस्य भान्ति निरासाय । तत्वनस्तु यदुचितानुष्ठानं तन्नाकामनिर्जराङ्गम् , यच्चानुचितानुष्ठानं तन्निर्वाणानङ्गत्वात्फलतो बालतपो वोच्यतामकामनिर्जराङ्गं वा नात्र कश्चिद्विशेष इति युक्तं पश्यामः॥
किंच-मिथ्यादृष्टीनामपि मार्गसाधनयोगा गुणस्थानकत्वाभ्युपग-- मादेव हरिभद्राचार्यैः प्रदर्शिताः, तथा चे तेषामपि सकामनिर्जसयां न बाधकम् , गुणलक्षणायास्तस्याः कुशलमूलत्वात् । तदुक्तं तत्वार्थभाष्ये नवमाध्याये-निर्जरा वेदना विपाक इत्यनान्तरम् । स द्विविधोऽ.. बुद्धिपूर्वः कुशलमूलश्च । तत्र नरकादिषु कर्मफलविपाको योऽबुद्धिपूर्वकप्तमवद्यतो ऽनुचिन्तयेद् अकुशलानुबन्ध इति । तप परिपहजयकृतः कुशलमूलस्तं गुणतोऽनुचिन्तयेत् -शुभानुबन्धो निरनुबन्धो वेति ।' एवमनुचिन्तयन् कर्मनिर्जरगायव 'घटते ॥” अत्र ह्यकुशलानुबन्धो विपाक इत्यकामनिर्जरायाः कुशलमूलश्च सकामनिर्जरायाः संज्ञान्तरमेवेति । अथ मिथ्यादृष्टर्बुद्धिरवुद्धिरेवेति न बुद्धिपूर्विका निर्जरेति चेद् । न, मार्मानुसारिण्या बुद्धेरबुद्धित्वेनापह्नोतुमशक्यत्वाद; अन्यथा माषतुषादीनामप्यकामनिर्जरा प्र. सङ्गात् , तेषां निर्जराया अबुद्धिपूर्वकत्वात्फललो बुद्धिसद्भावस्य चोभयत्राविशेषाद् । उचितगुणस्थानपरिणतिसत्त्वे फलतो बुद्धिमत्त्वमया'धितवेति । मेतेषां च दृश्यते । १ अनुकम्पाऽकामनिर्जराबालतपो दानविनयविभङ्गाः ।
महाव्रताणुव्रतैश्च बालतपोऽकामनिर्जराभ्यां च । देवायुर्निबध्नाति सभ्यगाष्टिश्च यो जीव: ॥
-
?