________________
" गुणठाणगपरिणामे संत तह बुद्धिमपि पाएण ।
जायइ जीवो तप्फलमवेक्खमने उ णियमत्ति ॥" गुणविशेषस्य जीवदयादिरूपस्यात्मनि परिणामे सति, तथेति समुच्चये बुद्धिमानपि युक्तायुक्तविवेचनशेमुषीपरिगतोऽपि न केवलधर्मसारः सदा भवति प्रायेग वाहत्येन जायते जीवः । महतामयनाभोगसंभवेन कदाचित्कृत्येवबुद्धिमत्त्वमपि के सचिस्यादिति प्रायोग्रहणम् । अत्रैव मतान्तरमाह-तत्फलं बुद्धिमत्त्वफलं स्वपिवर्गादिप्राप्तिलगमपेक्ष्यान्ये पुनराचार्या नियमोऽवश्यंभावो घुद्धिमञ्चस्य
आआभागेऽपि गुणस्थानपरिगतौ सत्यामिति वते । अयमभिप्राय:-संपन्ननिर्बणबतारिगामाः प्राणिनो जिनभणितभिदेमिति श्रद्दधानाः कचिदर्थेऽनाभोगबहुलतया अगर कोषाद् वितयश्रद्धानवन्तोऽपि न सभ्यक्त्वादिगुणभ.भाजो जायन्ते । , यथोक्तम्
"सम्मघवी जीवो उवइट्ठ पवयणं तु सद्दहइ ।
सद्दइइ असम्भावं अयाणमाणो गुरुणिओगा॥" ... बुद्धिमत्त्वे सति व्रतपरिणामफलमाविकलमुपलभन्त एवेति । यथा च सम्यग्दृष्टयादिगुणस्थानावान्तरपरिणतितारतम्येऽपि बुद्धिमत्वतामान्यफलाभेदस्तथा मार्गानुसारिणां मिथ्यादृशां मिथ्यात्वगुणस्थानावान्तरपरिणतितारतम्येऽपि । अत एवापुनर्बन्धकादीनामादित एवारम्यानाभोगतोऽपि सदन्धन्यायेन मार्गगमनमेवेत्युपदिशन्त्यध्यात्मचिन्तकाः । यत्तु मिथ्याशां सकामनिर्जरासंभवे सम्यग्दृष्टिमिथ्याहष्टयोरविशेषप्रसङ्ग इति केनचिदुच्यते, तदसत् । एवं सति मिथ्याष्ट्यादीनां सयोगिकेवलिपर्यन्तानां शुक्ललश्यावत्वेनाविशेषप्रसङ्गात् । अवान्तरविशेषान्न तदविशेष इति चेत् । सोऽयं प्रकृतेऽपि तुल्यः, सम्यग्दृष्टिनिर्जराऽपेक्षया मिथ्यादृष्टिनिर्जराया अल्पत्वस्याभ्युपगमादिति यथाशास्त्र भावनीयम् ॥ ४१॥
गुगस्थानकपरिणामे सति तथा बुद्धिमानपि प्रायेण । मायत जीवस्तत्फल मपेक्ष्यान्ये तु नियम इति ॥ . सम्यग्दृष्टिर्जीव उपदिष्टं प्रवचनं तु श्रद्दधाति । श्रद्दधात्यसद्भावमजानन् गुरुनियोगात् ॥