SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२८ नन्वेव मिथ्यादृशां गुणानुमोदमेन परपाखण्डिप्रशंसालक्षणः स म्यक्त्वातिचारः स्यादित्याशङ्कां परिहर्तुमाह परपाखंड पसंसा इह खलु कवि वमइआरो । सो तम्मयगुणमोहा अणवत्थाओ व होज्जाहि ४२ पर पाखंडपसंसति । एवमुक्तप्रकारेण इह मार्गानुसारिगुणानुमा दने परपाखण्डिप्रशंसाऽतिचारः कोऽपि न स्यात् । यतः स परपाखण्डप्रशंसातिश्चारस्तन्मताः परपाखण्डिमात्र संमता ये गुगा अग्निहोत्रपञ्चा साधनादयस्तेषु मोहोऽज्ञानं तत्त्वतो जिनप्रणीततुल्यत्वादिमिथ्याज्ञानलक्षणं ततो भवेत्, 'परपाखण्डिनः परदर्शनिनः प्रशंसा इत्यत्र व्युत्पत्तावर्थात् पाखण्डताऽवच्छेदकधर्मप्रशंसाया एवातिचारलाभाद् । यथा हि ' प्रमादिनो न प्रशंसनीया:' इत्यत्र प्रमादिनां प्रमादितावच्छेदकधर्मेणाप्रशंसनीयत्वं लभ्यते न त्वविरतसम्यग्दृष्टयादीनां सम्यक्त्वादिनाऽपि, 'तथा पाखण्डिनो न प्रशंसनीया: ' इत्यवापि पाखण्डिनां पाखण्डतावच्छेदकधर्मेणैवाप्रशंसनीयत्वं लभ्यतं न तु मार्गानुसारिणां क्षमादिगुणेनापि । अभिनिवेशविशिष्टक्षमादिगुणानामपि पाखण्ड तावच्छेदकत्वमेवेति तद्रूपेण प्रशंसायामध्यतिचार एव । अत एवोग्रकष्टकारिणा मध्याज्ञोल्लङ्घनप्रवृत्तीनां दोषावहत्त्वमुक्तं " 'तेसिं बहुमाणेणं उम्मग्गमोअणा अणिफला । तन्हा तित्थयराणाठिए जुत्तोत्थ बहुमाणो ॥ - इत्यादिना श्रीहरिभद्रसूरिभिः । वा अथवा, अनवस्थया मार्गअंगलक्षणयाऽतिचारो भवेद् । मुग्धपर्षदि क्षमादिगुणमादायापि मिथ्यादृष्टिप्रशंसायां परदर्शनिभक्तत्वप्रसङ्गादेकै कासमञ्जसाचाराद्, एवं मागच्छेदापत्तेः । अत एवाभिमुखमुग्धपर्षद्गतस्य परपाखण्डि परपाखण्डप्रशंसा इह खलु कोऽपि नैवमतिचारः । स तन्मतगुणमोहाद् अनवस्थया वा भवेद् ॥ ४२ ॥ तेषां बहुमानेनोन्मार्गमोदनाऽनिष्टफला । तस्मात्तीर्थकराज्ञास्थितेषु युक्तोऽत्र बहुमानः ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy