________________
१९१
" ण य घायउत्ति हिंसो णाघायंतीति णिच्छियमहिंसो । ण विरलजीवमहिंसो ण य जीवघणंति तो हिंसो ॥ १ ॥ अहणतोविहिंसो दुट्ठत्तणओ मओ अहिमरोव्व । बाहिंतो ण वि हिंसो सुद्धत्तणओ जहा विज्जो ॥ २॥”
नहि ' घातकः' इत्येतावता हिंस्रः, नचान्नन्नपि निश्चयनयमतेनाहिंस्रः, नापि 'विरलजीवम्' इत्येतावन्मात्रेणाहिंस्रः, न चापि 'जीवघनम्' इत्येतावता च हिंस्र इति किं तर्हि ? अभिमरो गजादिघातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो मतः । बाधमानोऽपि च शुद्धपरिणामो न हिंस्रः, यथा वेद्य इति घ्नन्नप्यहिंस्रोऽघ्नन्नपि च हिंस्र उक्तः । स इह कथंभूतो ग्राह्यः ? इत्याह
" पंचसमिओ तिगुत्तो नाणी अविहिंसओ ण विवरीओ । हो व संपत्ती से मावा जीवोवरोहेणं ॥ १ ॥
पञ्चभिः समितिभिः समितः तिसृभिश्च गुप्तिभिर्गुप्तो ज्ञानी जीवस्वरूपतद्रक्षाक्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतस्तत्प्रयतश्च कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरीतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम्, अशुभ परिणामत्वाद्, (भाव बाह्य) जीवहिंसाया जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन स•म्पत्तिर्भवतु माभूद्वा, 'से' तस्य साध्वादेः हिंसकत्वे तस्या अनैकान्तिकत्वादिति ॥ कुतस्तस्या अनैकान्तिकत्वम् ? इत्याह-
८८ ३ असुहो जो परिणाम सा हिंसा सो उ बाहिरणिमित्तं । कवि अवेक्वेज्जण वा जम्हा गंतियं बज्झं ॥ १ ॥ "
यस्मादिह निश्चय यतो योऽशुभपरिणामः स एव हिंसेत्याख्यायते । स च बाह्यसच्वातिपातक्रियालक्षणं निमित्तं कोऽप्यपेक्षते, कोऽपि पुनस्तन्निरपेक्षो भवेत,
१
च घातक इति हिंस्रो नाघातयनिति निश्चितमहिंस्रः न विरलजीवमहिंस्रो न च जीवघनमिति ततो हिंस्रः ॥ अनन्नपि खलु हिंस्रो दुष्टत्वान्मतोऽभिमर इव । बाधमानो नापि हिंस्रः शुद्धत्वाद् यथा वैद्यः ॥ २ पञ्चसमितस्त्रिगुप्तो ज्ञानी अविहिंसको न विपरीतः । भवतु वा संपत्तिस्तस्य मा वा जीवोपरोधेन ॥ ३ अशुभो यः परिणामः सा हिंसा स तु बाह्यनिमित्तम् । कोsपि अपेक्षते न वा यस्मादनैकान्तिकं बाह्यम् ॥