SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १९० स्थया जिनकल्पिकादीनामसंयतत्वप्रसक्तेर्वज्रलेपत्वमेव, तस्या योगावश्यंभावित्वस्य प्रवचनादेव निश्चयाद् अङ्गीकृतं चैतत्परेणापि । यदुक्तं तेन - "यत्रानुष्ठाने आरभस्तज्जिनैः प्रतिषिद्धमेव, उत जिनोपदिष्टक्रियायामारम्भो न भवत्येव ' इति लुम्पकीयपक्षद्वयदूषणार्थं ग्रन्थान्तरे । आद्यपक्षे साधूनां विहारा - हार - नीहार- नद्युत्तार-प्रतिक्रमण - प्रतिलेखनो - पाश्रयप्रमार्जनादिक्रियाणां प्रवचनप्रसिद्धानामारम्भाविनाभाविनीनां प्रतिषेधे सम्पन्ने तवैव गलपादुका । द्वितीयेऽध्यक्षबाधा, नद्युत्तारादिषु षण्णामपि जीवानां विराधनासम्भवात्, १ जत्थ जलं तत्थ वर्णं ' - इत्यागम वचनात् प्रतिक्रमणप्रति लेखनादिषु च वायुजीवादीनामारम्भस्यागमप्रसिद्धत्वात, एजनादिक्रियायुक्तस्यारम्भाद्यवश्यंभावात् । यदागमः - " २ जाव णं एस जीवे एअइ वेयइ चलइ फंदइ' इत्यादि यावदारंभे वहइ" इत्यादि । किंच - अपवादे आभोगपूर्वकायामपि जो विराधनायां सम्यक्त्वनाशादिदूषणं यत् त्वया नोच्यते, तत्र किं म्रियमाणानां जीवानां प्राणत्यागाभावः, सद्गतिर्वा कारणं, द्वयमप्यागमबाधितमित्याशयशुद्धत्वमेव तत्र कारणं वाच्यमित्यशक्यपरिहारजीव विराधनायामप्याशयशुद्धत्वादेव दोषाभावोऽस्तु, किमनाभोगप्रपञ्चेन, अत एव जीवघातेsपि लोके द्रव्यहिंसाया भावहिंसायां शब्दादीनां रताविवानैकान्तिककारणवात्, जीवरक्षाविषयकप्रयत्नेनैव साधोरन्तस्तत्त्वशुद्धेरदुष्टत्वं विशेषावश्यके उपपादितं नत्वनाभोगेनैव, तथा च तद्ग्रन्थः " एवमहिंसाऽभावो जीवघणंति ण य तं जउ भिहियं । सत्थोवहयमजीवं ण य जीवघणंति तो हिंसा ॥ १ ॥ " नन्वेवं सति लोकस्यातीव पृथिव्यादिजीवघनत्वादहिंसाभावः, संयतैरप्यहिंसाव्रतमित्थं निर्वाहयितुमशक्यमिति भावः, तदेतद् न, यतोऽनन्तरमेवाभिहितमस्माभिः -शस्त्रोपहतं पृथिव्यादिकमजीवं भवति । तदजीवत्वे चाकृताकारितादिपरिभोगेन निर्वहत्येव यतीनां संयमः । न च 'जीवघनो लोकः' इत्येतावन्मात्रेव हिंसा सम्भवतीति ॥ आह ननु जीवाकुले लोकेऽवश्यमेव जीवघातः सम्भवी, tair arन् कथं हिंसको न स्याद् ? इति भावः । १ यत्र जलं तत्र वनम् | २ यावदेव जीव एजते वेदयति चलति स्पन्दते इत्यादि यावदारम्भे वर्तते । १ एवमहिंसाऽभावो जीवधनमिति न च तद् यतोऽमिहितम् । शस्त्रोपहतमजीवं न च जीवधनमिति ततः हिंसा ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy