________________
एव सर्वत्र संयमरक्षाहेतुर्न त्वनाभोगमात्रमिति । नद्युत्तारेऽपि यतीनां तत एवादुष्टत्वम्, न तु जलजीवानाभोगादिति स्थितम् ॥ ६७ ॥ __ अथ तत्र जलजीवानाभोगे व्यक्तं दूषणमाहजलजीवाणानोगा इनत्तारंमि जइण तुह दोसो। पाणेवि तस्स तासो मूलच्छेज्जो ण हुज्जाहि ॥५॥ ___ व्याख्या-'जलजीवाणाभोग 'त्ति नद्युत्तारे जलजीवानाभोगाद् यदि तव न दोषः, तर्हि तस्य जलस्य पानेऽपि स दोषो मूलच्छेद्यो मूलप्रायश्चित्तविशोध्यो न भवेत् : नहि नदीमुत्तरतो जलजीवानाभोगस्तत्पाने च तदाभोग इति त्वया वक्तुं शक्यते, तदनाभोगस्य त्वया केवलज्ञाननिवर्तनीयत्वाभ्युपगमात् , तथा चोभयत्रैव मिथ्यादुष्कृतप्रायश्चित्तशोध्यमेव पापं स्यात् । ननु ज्ञाखा जलपानेऽपि मूलच्छेद्यम्, तच्च श्रुतपरम्पराविरुद्धमित्याभोगविषयतापि जलजीवानामवश्यं वक्तव्या, प्रायश्चित्तभेदस्तु यतनायतनाविशेषादिति । यदि च ज्ञाला जलपाने न जलजीवाभोगात्सायश्चित्तविशेषः, किन्तु निःशूकत्वादित्युच्यते, तर्हि स्थूलत्रसाभोगोऽप्युच्छिद्येत, तद्वधेऽपि निःशूकताविशेषादेव पातकविशेषोपपत्तेः । शास्त्रे वाभोगानाभोगावकर्त्तव्यत्वज्ञानतदभावरूपावेवोक्तौ । तदुक्तं पश्चाशकवृत्तौ"तत्राभोगोऽकर्त्तव्यमिदमिति ज्ञानम्, अनाभोगस्त्वज्ञानमिति । तौ चोभयविराधनायामपि सम्भवत एव।" प्रतिपादितं च प्रायश्चित्तमाभोगानाभोगभेदात् पृथिव्यादि विराधनायामपि पृथगेवेति न किञ्चिदेतत् । एतेन यदुच्यते विनापवाद ज्ञात्वा जीवघातको यद्यसंयतो न भवेत् , तर्हि असंयतसमुच्छिन्नसंकथं भवेद्-इत्यादि परेण तदपास्तम् । अपवादमन्तरेणापि सामान्यसाधूनामपवादपदानधिकारिणां चोत्कृष्टचारित्रवतां प्रतिमाप्रतिपन्नजिनकल्पिकादीनां नद्युत्तारादावाभोगपूर्वकजीवविराधनायाः साधितत्वात् । नद्युत्तारश्च जिनकल्पिकादीनामपि, जत्थत्यमे इत्यादि प्रवचनेषु दिवसतृतीयपौरुष्यतिक्रमे नद्याद्युत्तरतस्ते जलात्पदमात्रमपि बहिर्न निक्षिपन्ति, किन्तु तत्रैव तिष्ठन्ति-इत्यादिभणनेन प्रतीत एव । सोऽप्यापवादिकश्चेत्, तर्हि विहाराहारादिक्रियास्वौत्सर्गिकीषु जीवविराधनया योगसमु
१ जलजीवानाभोगाद् नद्युत्तारे यदि न तव दोषः ।
पानेऽपि तस्य त्रासो मूलच्छेद्यो न भवेद् ॥ २ यत्रास्तमियाद्