________________
१८८
तरुणाणं चउमासे वुड्राणं होइ छम्मासे ॥ १॥” इत्यादि। तत्तस्माद्विधिना जिनोपदेशेन यतितव्यम्-इत्येवं महावाक्यार्थस्य प्राक्चालि(त)तत्प्रत्यवस्थानरूपस्य रूपं तु स्वभावः पुनः। महावाक्यार्थमेव गाथापूर्वार्द्धनोपसंहरनदंपर्यमाह“एवं एसा अणुबंधभावओ तत्तओ कया होइ ।
अइदंपजं एवं आणाधम्मंमि सारोत्ति ॥१॥" एवं विधिना यत्नेन क्रियमाणेनैषा हिंसाऽनुबन्धत उत्तरोत्तरानुबन्धभावान्मोक्षप्राप्तिपर्यवसानानुगमात् तत्त्वतः परमार्थतः कृता भवति, मोक्षमसंपाद्य जिनाज्ञाया उपरमाभावादिति ऐदंपर्यमेतदत्र यदुताज्ञाधर्मे सारः । इति परिसमाताविति । प्रतिबन्धकाभावत्वेनोक्तहिंसाया निर्जराहेतुत्वे चाभ्युपगम्यमाने केवलायास्तस्याः प्रतिबन्धकत्वाभावाज्जीवघातपरिणामविशिष्टत्वेन प्रतिबन्धकत्वे विशेषणाभावप्रयुक्तस्य विशिष्टाभावस्य शुद्धविशेष्यस्वरूपत्वे विशेष्याभावप्रयुक्तस्य तस्य शुद्धविशेषणरूपस्यापि सम्भवाज्जीवघातपरिणामोऽपि देवानांप्रियस्य निर्जराहेतुः प्रसज्येतेत्यहो ! काचनापूर्वयं तांगमचातुरी । वर्जनाभिप्रायेण जीवघातपरिणामजन्यत्वलक्षणं स्वरूपमेव विराधनायास्त्याज्यतेऽतो नेयमसती प्रतिबन्धिकेति चेत् , किमेतद्विराधनापदप्रतिनिमित्तमुत विशेषणं विराधनापदार्थस्य । आये पदप्रवृत्तिनिमित्तं नास्त(स्ति), पदार्थश्च प्रतिपाद्यते इत्ययमुन्मत्तप्रलापः । अन्त्ये च विशिष्टप्रतिबन्धकत्वपर्यवसाने उक्तदोषतादवस्थ्यमिति मुग्धशिष्यप्रतारणमात्रमेतत् । न च ' यद्धर्मविशिष्टं यद्वस्तु निजस्वरूपं जहाति स धर्मस्तत्रोपाधिः' इति नियमाद् वर्जनामिभप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजतीति भावार्थपर्यालोचनादनुपहितविराधनात्वेन प्रतिबन्धकत्वं लभ्यत इत्युपहितायास्तस्याः प्रतिबन्धकाभावत्वं स्वरूपेणैवाक्षतमित्यपि युक्तम्, प्रकृतविराधनाव्यक्तौ जीवघातपरिणामजन्यत्वस्यासत्त्वेन त्याजयितुमशक्यत्वाद्, अत एव तत्प्रकारकप्रमितिप्रतिबन्धरूपस्यापि तद्धानस्यानुयपत्तेः । अथ वर्जनाभिमायाभावविशिष्टविराधनात्वेन प्रतिबन्धकत्वे न कोऽपि दोषः, प्रत्युत वर्जनाभिप्रायस्य पृथक्कारणत्वाकल्पनाल्लाघवमेवेति चेत् , न । वर्जनाभिप्रायमात्रस्याज्ञाबाह्यानुष्ठानेऽपि सत्त्वान्नोत्तेजकत्वमित्याज्ञाशुद्धभावस्येहोत्तेजकत्वं वाच्यम्, स च विशिष्टनिर्जरामात्रे स्वतन्त्रकाणघ मिति न तत्रास्येहोत्तेजकत्वं युज्यते: अन्यथा दण्डाभावविशिष्टचक्रवादिनापि घटादौ प्रतिबन्धकता कल्पनीया स्यादिति न किञ्चिदेतत् । तस्मादाज्ञाशुद्धभाव