________________
यथा तन्दुलमत्स्यादीनाम्, यस्मादनकान्तिकमेवं बाह्यनिमित्तम् , तत्सद्भावेऽप्यहिंसकत्वात् , तदभावे च हिंसकलादिति। नन्वेवं तर्हि बाह्यो जीवघातः किं सर्वथैव हिंसा न भवति ? उच्यते-कश्चिद् भवति, कश्चित्तु न। कथम् ? इत्याह--
" 'असुहपरिणामहेऊ जीवाबाहोत्ति तो मयं हिंसा। ___ जस्स उ ण सो णिमित्तं, संतोवि ण तस्स सा हिंसा" ॥१॥ ततस्तस्माद् यो जीवावाधोऽशुभपरिणामस्य हेतुरथवाऽशुभपरिणामो हेतुर्यस्यासावशुभपरिणामहेतु वाबाधो जीवघातः स एव हिंसेति मतं तीर्थकरगणधराणाम्। यस्य तु जीवाबाधस्य सोऽशुभपरिणामो न निमित्तं स जीवाबाधः सन्नपि तस्य साधोर्न हिंसेति । अमुमेवार्थं दृष्टान्तेन द्रढयन्नाह--
" सद्दादो रइफला ण वीयमोहस्स भावसुद्धीओ।।
जह तह जीवाबाहो ण सुद्धमणसो वि हिंसाए ॥१॥" यथेह वीतरागद्वषमोहस्य भगवत इष्टाः शब्दरूपादयो भावविशुद्वितो न कदाचिद्रतिफला रतिजनकाः सम्पद्यते, यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयाभिलाषः संजायते, तथा शुद्धपरिणामस्य यत्नवतः साधोः सचोपघातोऽपि न हिंसायै सम्पद्यते, ततोऽशुभपरिणामजनकत्वे बाह्य निमित्तमनैकान्तिकमेवेति ॥" (पृ. ७४७. गा. १७६२-६८) ____ यदि चाशक्यपरिहारविराधनाभोगः साधूनां सम्यक्त्वक्षतिकरः स्यात् तदौत्सर्गिकविहारादिक्रियापरित्याग एव स्यात् , तत्रापि योगजन्यविराधनानिश्चयाद्, न च प्रमाणान्तरेण निश्चितेऽपि स्वादर्शनमात्रेणानाभोगः शक्यो वक्तुमित्युक्तमेव, न चेदेवं तदा निरन्तरजीवाकुलभूमि निर्णीयापि रात्रौ तत्रैव स्वैरंगमने जीवाप्रत्यक्षत्वेन तत्र तज्जीवविराधनाऽनाभोगजा वक्तव्या स्यात् । तथा च लोकशास्त्रविरोधः। किंचैवमब्रह्मसेवायामपि केवलिवचसा निश्चीयमानाया अपि त्रसविराधनाया अना भोगपूर्वकत्वे साधोःप्रथममहाव्रतभङ्गो न स्यात् , स्याच प्रकृष्टावधिमतां प्रत्यक्षयोगजन्यविराधनानामिति न किञ्चिदेतत् ॥५८॥ एवं व्यवस्थिते सत्यत्र विश्रान्तस्य परस्याक्षेपं समाधत्ते
अशुभपरिणामहेतुर्जीवाबाध इति ततो मतं हिंसा । यस्य पुनः सोऽनिमित्तं सन्नपि न तस्य सा हिंसा ॥ ५ शब्दादयो रतिफला न वीतमोहस्य भावशुद्धितः । यथा तथा जीवाबाधो न शुद्धमनसोपि हिंसायै ॥