________________
'नणु आनोगा इत्थं, घिस्थाण हुऊ देसविरयत्तं । ऐवं, जं पमिपुन्ना पमिवत्ती सुत्ताणा य ॥५॥
व्याख्या-नणुत्ति । नन्वत्र नद्युत्तारे-जलजीवविराधनायामाभोगाद्विरतानां सर्वसंयमवतां देशविरतत्वं भवेत् , निश्चितेऽपि जलजीवघातेऽवस्थितस्य विरतिपरिणामस्याभ्युपगमे तस्य देशविरतिरूपस्यैव पर्यवसानाद्, निश्चितेऽपि जलजीवघाते तज्जीवविषयकविरतिपरिणामस्यानपायेन चारित्राखण्डताभ्युपगमे च सर्वेषामपि सम्यग्दृशां सर्वविरतिप्रतिपत्तौ न किञ्चिद्वाधकमिति देशविरत्युच्छेद एव स्यादिति भावः। नैवम्, यद्-यस्मात् कारणाद्विरतानांप्रतिपूर्णा प्रतिपत्तिः-अष्टादशशीलाङ्गसहस्रग्रहणलक्षणा सूत्राज्ञा च तेन न निश्चितायामपि जलजीवविराधनायां नद्यत्तारादौ देशविरतत्वम्, प्रतिपन्नसर्वविरतेः सूत्राज्ञयाऽखण्डनात् । न च प्रतिदिनकर्त्तव्यविचित्रोत्सर्गापवादगहनाष्टादशशीलाङ्गसहस्रमतिपत्तियोग्यतां स्वात्मन्यनिश्चित्यादित एव तत्मतिपत्तियुक्तेति तदधस्तनगुणस्थानयोग्यतया देशविरतिप्रतिपत्तिसम्भवान्न तदुच्छेद इति भावः । इदं तु ध्येयम् निश्चयमयमतेनाष्टादशापि शीलासहस्राण्यखख्येयात्मप्रदेशवत्परस्परनियतान्येवेत्येकस्यापि सुपरिशुद्धस्य शीलाङ्गस्य सत्त्वं शेषसद्भाव एव स्यादिति समुदितैरेव तैः सर्वविरतिसम्भवः। तदुक्तं हरिभद्राचार्यैः
"२एत्थ इमं विण्णेयं, अइदंपज्जं तु बुद्धिमतेहिं । इक्कंपि परिसुद्धं, सीलंग सेससब्भावे ॥१॥ एक्को वाऽऽयपएसोऽसंखेज्जपएससंगो जहओ। एयंपि तहा णेयं सतत्तचाओ इहरहा उ ॥२॥ जम्हा समग्रमेयंपि सबसावज्जजोगविरईओ .
तत्तेणेगसरूवं णाखंडरूवत्तणमुवेइ ॥३॥ १ नन्वाभोगादित्थं विरतानां भवेद् देशविरतत्वम् ।
नैवं, यत्प्रतिपूर्णा प्रतिपत्तिः सूत्राशा च ॥ ५९ ॥ २ अत्रेदं विज्ञेयमैदंपर्यं तु बुद्धिमद्भिः। एकमपि सुपरिशुद्धं शीलानं शेषसद्भावे ॥ एको वाऽऽत्मप्रदेशोऽसंख्येयप्रदेशसंगतो यथा च । एतदपि तथा ज्ञेयं स्वतत्त्वत्याग इतरथा तु ॥ यस्मात्समग्रमेतदपि सर्वसाक्चयोमविरतितः । . तत्तेनैकस्वरूपं नाखण्डरूपत्वमुपैति ॥