SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ . . १९४ व्यवहारनयमते त्वेकाद्यङ्गभङ्गेऽपि सज्वलनोदयस्य चरणैकदेशभङ्गहेतुत्वादपरशीलाङ्गसद्भावादवशिष्टपतिपन्नचारित्रसद्भावान्न देशविरतत्वम्, नहि पर्वतैकदेशलोवाद्यपगमेऽपि पर्वतस्य लोष्टुत्वमापद्यते, मूलभङ्गे तु चारित्रभङ्ग एव, अत एव यो मन्यते 'लवणं भक्षयामि' इति तेन मनसा करोति आहारसंज्ञाविहितो (हीनो)रसनेन्द्रियसंवृतः पृथिवीकायसमारम्भं मुक्तिसम्पन्न इत्येकतद्भङ्गः कृतः। ततस्तद्भनेन च प्रतिक्रमणप्रायश्चित्तेन शुद्धिः स्यात् , अन्यथा मूलेनैव स्यादिति । न च तद्भक्षणेऽपि शेषाङ्गसत्त्वान्न प्रलापत्तिरिति शङ्कनीयम् : मण्डपशिलादृष्टान्तेनैकस्यापि गुरुदोषस्य मूलनाशकत्वाभ्युपगमात् । इदं च शीलाङ्गान्यूनत्वं भावविरतिमपेक्ष्य द्रष्टव्यम् न तु बाह्यामपि प्रवृत्तिमपेक्ष्य, यतः सा परतन्त्रस्य स्वतन्त्रस्य वा पुष्टालम्बनदशायां स्वतन्त्रभङ्गेच्छारूपाविरतिभावं विना द्रव्यहिंसादिकारिण्यपि स्यादेव, नच तया सर्वार्थानभिष्वङ्गस्य भावविरतिबाधनम्, उत्सूत्रा तु प्रवृत्तिर्बाधत एव विरतिभावम्, केवलं सा गीतार्थप्रज्ञापनायोग्या निरनुबन्धा, अभिनिवेशवती तु न मूलच्छेघातिचारजातमन्तरेण स्यादिति गीतार्थस्य तनिश्रितस्य वाऽऽज्ञापरतन्त्रस्योत्सूत्रप्रवृत्तिरहितस्याष्टादशशीलाङ्गसहस्रमयो सर्वविरतिपरिणामः पूर्णों भवति, बाखप्रवृत्तिपूर्णतामात्रं त्वत्रातन्त्रमिति । तदुक्तं "'एयं च एत्थ एवं विरईभावं पडुच्च दट्टव्वं । णउ बझंपि पविति जं सा भावं विणा वि भवे ॥१॥ जह उस्सग्गंमि ठिओ खित्तो उदगंमि केण उ तवस्सी। तबहपवित्तकाओ अचलियभावोऽपवित्तो उ ॥ १४ ॥ एवं चिय मज्झत्थो, आणाओ कत्थई पयट्टतो। सेहगिलाणा दट्ठा अपवत्तो चेव णायवो ॥ १५ ॥ आणापरतंतो सो सा पुण सबन्नुवयणओ चेव । एगंतहिया वेज्जगणाएणं सबजीवाणं ॥१६॥ १ एतच्च अत्रैवं विरतिभावं प्रतीत्य द्रष्टव्यम् । न तु बाह्यामपि प्रवृत्तिं यत्सा भावं विनाऽपि भवेद ॥ यथोत्सर्गे स्थितः क्षिप्त उदके केन तु तपस्वी । । तद्वधप्रवृत्तकायोऽचलितभावोऽप्रवृत्तस्तु ॥ एवमेव मध्यस्थ आशया क्वचित्प्रवर्तमानः । शैक्षग्लानादू दृष्टादप्रवृत्त एव ज्ञातव्यः ॥ आशापरतन्त्रः स सा पुनः सर्वज्ञवचनतश्चैव । एकान्तहिता वैद्यकशातेन सर्वजीवानाम् ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy